________________
१८
मत्रिकर्मचन्द्रवंशावलीप्रबन्ध ।
[८९-९४
प्रधानललाटं यस्य स शुभभाग्यकलितवरभालः। पुनः किम्भूतः ? अवमानितोऽवगणितः कलिकालो येन सोऽवमानितकलिकालः। कलावप्यर्थिन आहूय द्रव्यदानात् कृतयुगयोग्यकर्मकर्तेत्यर्थः । यतः- 'आहूय च कृते दानं त्रेतायां गृहमागते । द्वापरे याचनादानं सेवादानं कलौ युगे॥८८
तत्पुत्रो गुणपात्रं माण्डणनामा समस्ति जनमान्यः ।
महिमादेवीनाम्नी रामा तस्याभिरामाऽभूत् ॥ ८९ व्याख्या-तस्य मेराकस्य पुत्रो.माण्डणनामा समस्ति बभूव । अस्तीति तिङन्तप्रतिरूपकमव्ययम् । किम्भूतः ! गुणानामौदार्यादीनां पात्रं भाजनम् । पुनः किम्भूतः? जनानां मान्यः सत्कारा) जनमान्यः। तस्य माण्डणस्य महिमादेवीनाम्यभिरामा रमणीया रामा प्रमदाऽभूत् ॥ ८९
श्रीजिनधर्मपरायणमतिरमितगुणः स तीर्थकृतयात्रः।
जीवदयामृतपात्रं याचकदारिद्यतृणदात्रम् ॥९० व्याख्या-स माण्डणः, श्रीजिनधर्मे श्रीजिनधर्मविषये, परायणा प्रवणा मतिर्बुद्धिर्यस्य स श्रीजिनधर्मपरायणमतिर्बभूवेति गम्यते । किम्भूतः ? अमिता इयत्तयाऽगणिता गुणा विनयादयो यस्य सोऽमितगुणः। तथा तीर्थेषु शत्रुञ्जयादिपुण्यक्षेत्रेषु, कृता यात्रा उत्सवो येन स तीर्थकृतयात्रः । तथा जीवदयैवामृतं पीयूषं तस्य पात्रं भाजनम्, तथा याचकानामर्थिनां दारिद्यमेव तृणं, तत्र दात्रं लवित्रं, याचकदारियतृणदात्रम् । यथा दात्रेण तृणं लूयते तथा येन दानेन याचकदारिद्यं लूनमित्यर्थः॥ ९०
संस्मृतपूर्वजभूमिस्त्यक्त्वा यो गौर्जरावनिं मानी।
वीरमपुरे निवासं चकार धृतसारपरिवारः॥ ९१ व्याख्या-यो माण्डणः, संस्मृता स्मृतिगोचरमागता पूर्वजानां समधरादीनां भूमिरवस्थानक्षेत्रं यस्य स संस्मृतपूर्वजभूमिः, गौर्जरावनिं गौर्जरभूमि, त्यक्त्वा परित्यज्य, धृतः खीकृतः सारः प्रकृष्टः परिवारो बन्ध्वादिपरिच्छदो येनैवंविधः सन् , वीरमपुरे महेवापरनामनगरे, निवासमवस्थानं चक्रे व्यधात् । किम्भूतो? मानी मानश्चित्तोन्नतिरस्यास्तीति मानी ॥ ९१
जिनपूजनसामायिकपौषधकृत्यैर्विशुद्धचेतस्कः।
दानप्रीणितलोकः समभूत् सम्प्राप्तसुरलोकः ॥ ९२ व्याख्या-स इति गम्यते, स माण्डणो जिनानां यत्पूजनकृत्यं सामायिककृत्यं पौषधकृत्यं च, द्वन्द्वान्ते श्रूयमाणः कृत्यशब्दः सर्वत्र योज्यते । तैः कृत्वा, विशुद्धं विमलं चेतश्चित्तं यस्य स विशुद्धचेतस्कः, सम्प्राप्तो लब्धः सुरलोकः खर्गो येनेत्येवंविधः समभूजातः । स्वर्ययावित्यर्थः। किम्भूतः ? दानेन वितरणेन प्रीणितः प्रमोदितो लोको याचकजनो येन स 25 दानप्रीणितलोकः ।। ९२
तस्य सुतोऽभूत् पूतः सद्वंशसमुद्भवैर्नरैर्वृतः ।
ऊदाह्रः सुविवेकी गुरुवचनाम्भोदवरकेकी ॥९३ व्याख्या- तस्य माण्डणस्योदाह्र ऊदाख्यः सुतोऽभूत् । किम्भूतः ? पूतः पवित्रः। पुनः किम्भूतः ? सद्वंशे शोभनान्वये समुद्भवा जाताः सदंशसमुद्भवाः, तैर्नरैः पुरुषैर्वृतः स्तुतः। णूत् स्तवने । पुनः किम्भूतः ? सुविवेकी शोभनविवेकवान् । 30 पुनः किम्भूतः ? गुरुवचनमेवाऽम्भोदो मेघस्तत्र वरकेकीव प्रधानबहीव गुरुवचनाम्भोदवरकेकी । यथा केकी घनध्वनि श्रुत्वा हृष्यति तथा गुरुवचनश्रवणात तुष्यतीति । यतः - 'स्त्रियस्तुष्यन्ति जारेण पांसुस्नानेन कुञ्जराः । गावो दूरप्रचारेण मयूरा धनगर्जितैः ।। ९३
गुणरञ्जितभूवलया सत्कलयाऽलङ्कता कृपानिलया। निम्नीकृतरतिरूपा नाम्ना उछरङ्गदेवीति ॥ ९४ .
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org