________________
१२-१६ ]
पाठक श्रीजयसोम विरचित
शासनप्रभावकश्रीकर्म चन्द्रमत्रिराजस्य वंशावली वर्णनीयेति । तेषामुपदेशेन श्रीमन्त्रि श्रीकर्मचन्द्रस्य वंशश्रेणीं यथाश्रुतं - श्रुतं श्रवणं तत्परम्परावेत्तृमुखात्तदनतिक्रम्य यथाश्रुतं वर्णयामि गुणवचनैर्विस्तारयामि । 'वर्ण वर्णक्रियाविस्तारगुणवचनेषु ।' वर्णक्रियावर्णनं वर्णकरणं वा । कथं वर्णयति कविः ? सुवर्णं वर्णयति । विस्तारे वर्णनेयं गुणवचनस्तुतिः । शुक्लाद्युक्तिर्वा राजानमुपवर्णयतीति क्रियारत्नसमुच्चये । किंविशिष्टस्य ? चतुर्वर्णवर्णनीययशस्ततेः चत्वारो वर्णा ब्राह्मण-क्षत्रिय-वैश्यशूद्रास्तैवर्णनीया स्तवनीया यशस्ततिः कीर्तिवृन्दं यस्य तथा तस्य । उक्तं च
'यदि सन्ति गुणाः पुंसां विकसन्ति तदा स्वयम् । नहि कस्तूरिकामोदः शपथैः प्रतिपाद्यते ॥ ११ अथ कविर्वर्णयामीति खगवें खर्गीकुर्वने काक्षरमहाविद्या प्रभावमुद्भावयति -
वाचस्पतिसमात्यन्तविशुद्धधिषणो जनः ।
वंशं वर्णयितुं यस्य व्यक्त्या शक्तो न यद्यपि ॥ १२ समासेन तथाऽप्यस्य वर्णना बिरुदान्विता ।
वितन्यते मया मायाबीजमन्त्रप्रभावतः ॥ १३ युग्मम् ॥
व्याख्या – यस्य श्रीमन्त्रिराजस्य वंशमन्वयं वर्णयितुं स्तोतुं यद्यपि वाचस्पतिसमात्यन्तविशुद्धधिषणो वाचस्पतिर्वृहस्पतिस्तेन समा सदृशी अत्यन्तमतिशयेन विशुद्धा निर्दोषा जाग्रतीत्यर्थः, धिषणा बुद्धिर्यस्येति, एवंविधो जनो लोको व्यक्त्या विशेषेण पृथक्पृथग्गुणोद्भावनेन न शक्तो न क्षमः । तथाऽप्यस्य श्रीमन्त्रिराजवंशस्य समासेन संक्षेपेण बिरुदान्विता बिरुदः प्रसिद्धः प्रवादस्तेन सहिता वर्णना स्तवना मया ग्रन्थकर्त्रा मायाबीजमन्त्रप्रभावतो हीँकाररूपमन्त्रशक्तितो वितन्यते विस्तार्यते । 5 इयमेकाक्षरमहा विद्याऽल्पाऽप्यनल्पफलदा । यदुक्तम् -
'अमृतं कन्यासूत्रं चर्मच्छत्रादिचत्रिरत्नानि । वटबीजं बालेन्दुबालहरिस्तन्तुजन्तुश्च ॥
जात्यमणिः सिद्धरसो रसाङ्गमेकाक्षरा महाविद्या । उपमा इमा हरिकृते सुकृतेऽल्पेऽनल्पतरफलदे ॥' इयमेव च श्रीजिनदत्तसूरेर्मूलविद्या । तथा च श्रीजिनदत्तसूरिपादैरुक्तम्'वर्णान्तः पार्श्वजिनो रेफस्तदधः स्थितः स धरणेन्द्रः । तुर्यः खरः सबिन्दुः स भवेत्पद्मावतीसंज्ञा ॥ त्रिभुवनजनमोहकरी विधेयं प्रणवपूर्वकनमोन्ता । एकाक्षरेति संज्ञा जपतः फलदायिनी नित्यम् ॥ १३ भूयांसः सन्ति भूमीशा भूयांसः सन्ति मन्त्रिणः । श्रीजैन धर्ममाहात्म्यमनेनाधिकमेधितम् ॥ १४ तेन गीर्मामकीनाऽस्य वर्णनाय प्रगल्भते ।
कम्राम्रकलिकाखादात् कोकिला किं न कूजति ? ॥ १५ युग्मम् ॥
Jain Education International
10
व्याख्या - भूयांसो बहवो भूमीशा राजानः सन्ति विद्यन्ते । भूयांसो मन्त्रिणो धीसखाः सन्ति । परं श्रीजैनधर्ममाहात्म्यं श्रीजिनधर्म महिमाऽनेन श्रीमन्त्रिराजेनाधिकमुचैरेधितं वृद्धि प्रापितम् । तत्तदाश्चर्यकारिकृत्यकरणेन श्रीजिनशासनोधोतो विदध इत्यर्थः । तेन हेतुना मामकीना मदीया गीर्वाणी, अस्य मन्त्रिराजस्य वर्णनाय स्तवनाय प्रगल्भत उत्सहते । एतदेव दृष्टान्तद्वारेण दृढयन्नाह - कोकिला पिकी कम्रा रुचिरा याऽऽम्रकलिका सहकारकोरकस्तस्या आखादाद् भक्षणात् किं न कूजति न विरौति ? अपि त्वाम्रकलिकाखादेन कोकिला मधुरं नदत्येव । एवं मन्त्रिराजगुणान् श्रुत्वा मदीयाऽपि वाणी 20 गुणवर्णनायोत्कण्ठते ॥ १५
ननु कोऽस्य गुणवर्णनायां फलोदय इत्यत आह
योग्यानां कीर्तनं येन पुण्यवृद्धिविधायकम् । तेन विघ्नावली नूनं बलादू विध्वंसमेष्यति ॥ १६
For Private & Personal Use Only
25
www.jainelibrary.org