________________
जैनपुस्तकप्रशस्तिसङ्ग्रह । लावण्यपात्रं किल लूणसिंहस्तयोलघुः पापगजैकसिंहः ।
न्यायार्जितैर्यस्य धनैः सदैव साधुत्वभावं हि व्रतं विनैव ॥ १६ ॥ रत्नश्री सद्भार्या तेषामाद्यस्य श्रीरिवाभा..[1] ....."भोली लाछिलावण्यसिंहस्य ॥ १७ ॥ रत्नश्रीकुक्षिजाः पुत्र्यश्चतस्रश्चतुराशयाः। माणिक्या प्रथमा तासां शोभितोभयपक्षका ॥ १८ ॥ ततः सोहगसंज्ञा च शीलादिगुणभूषिता । तृतीय-तुर्ये दुहिते कस्मीरी-माउकाभिधे ॥ १९ ।।
सहजपाल इति प्रथमः सुतः सहजसद्गुणतः सुमनोमतः ।
___ भुवनपेसलदेशलसं [ज्ञिनः] ....... 'दुतदुःकृततानवः ॥ २०॥ द्वितीयः साहणाभिख्यः ख्यातश्च गुणसम्पदा । जिनांघ्रिकमले भृङ्गस्तृतीयः समराभिधः ॥ २१ ।।
जज्ञ ता(?)सुसखी यस्याः सा जणकूस्तनूरुहा । रम्भाभिधानदेव्याश्च देशलस्य शुभात्मनः ॥ २२ ।। 10 सहजलदेवी जाया मायामुक्तस्य सहजपालस्य । राजमतिः सत्कान्ता साहणसाधोस्तु सद्भु..... ॥ २३ ॥ [पुत्रो ] लावण्यसिंहस्य सामन्तः समतायुतः । तल्लघुः साङ्गणश्चापि कुलधूर्धवलः किल ॥ २४ ॥ पुण्यपानीयसम्पर्काद् वृद्धिं याति कुलद्रुमे । आशाधरो विशुद्धात्मा चिन्तयामास चेतसि ॥ २५॥
__ श्रुताधीनं कलौ धर्म नैव तत्पुस्तकं विना । पुस्तकानि तु लिख्यन्ते लेखकैर्लब्धवेतनैः ॥ २६ ॥ विचिंत्येति खचित्तेन पित्रोः पुण्याय भावतः । उत्तराध्ययनस्येह ससूत्रं वृत्तिपुस्तकम् ॥ २७ ॥ 15सिद्धसूरिगुरोराज्ञां बिभ्राणः शिरसा भृशम् । करेष्वनीन्दु १३५२ वर्षेत्र व्यलीलिखदवाचयत् ॥२८॥(युग्मम्)
एवं संघाधिपोऽसौ विशदगुणमयः साधुराशाधराहः, पित्रोः पुण्याय हर्षातिरुचिरमिदं पुस्तकं वर्ण्य............... ............चुतानां कलितमसि सतामुत्तराध्यायवृत्तेः, विद्वल्लोकस्य चित्तप्रशमसुखकरं कारयामास विज्ञः ॥ २९ ॥ आशाधर तवायुर्वा कीर्तिवल्लीसमुद्गता । आलवालेव दुःकाले........ दीनदानतः ॥ ३०॥ श्रीदेवगुप्तसूरीणां शिष्यः समुदि संसदि । पासमूर्तिस्तदादेशात् किमप्यर्थमभाषत ॥ ३१ ॥ 20 ....... 'जस्येह पुष्पदन्तौ स्थिराविमौ । गुरुभिर्वाच्यमानोऽयं तावन्नंदतु पुस्तकः ॥ ३२ ॥
सम्वत् १३५२ वर्षे वर्षाकाले श्रीउपकेशगच्छे श्रीकुकुदाचार्यसंताने श्रीसिद्धसूरिप्रतिपत्तौ सा० वेसटसंताने सा० गोसलात्मज संघपति आशाधरेण उत्तराध्ययनवृत्ति ससूत्रा कारिता ॥ इति ॥
[३५] श्रीमालवंशीय-श्रावकगणलेखित-कल्पसूत्र कालिकाचार्यकथा-पुस्तिकाप्रशस्तिः ।
[लेखनकाल १३६५ विक्रमाब्द ] -इति पल्लीवालगच्छे श्रीमहेश्वरसूरिभिर्विरचिता कालिकाचार्यकथा समाप्ता ।
श्रीमालवंशोऽस्ति..... विशालकीर्तिः श्रीशान्तिसूरिप्रतिबोधितडीडकाख्यः ।
श्रीविक्रमाद्वेदनभर्महर्षिवत्सरे श्रीआदिचैत्यकारापित नवहरेच (?) ॥ १॥ तस्य शाखासमुद्भूतो देवसिंहो गुणाधिकः । तत्सुतः कर्मसिंहस्याभूत्पुत्रो मलसिंहकः ॥ २ ॥ 30 महीरोलनगोत्रे च मंडनो धांधकाभिधः । तत्सुतास्त्रयः सञ्जाता ऊदल-देदाकनामतः ॥ ३ ॥
* एषा पुस्तिका स्तम्भतीर्थे शान्तिनाथमन्दिरस्थितभाण्डागारे विद्यते । इयं प्रशस्तिः प्रायः प्रभृष्टपाठात्मकाऽस्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org