SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ जैनपुस्तकप्रशस्तिसङ्ग्रह। इह धर्कटवंशेऽभूत् वरदेवोऽभिधानतः । निश्चितं वरदेवोऽयं पुरुषः कुलभूषणं ॥१॥ भार्या पूर्णमतिस्तस्य पूर्णा पूर्णमतिर्मना । तत्कुक्षिसंभवाः पंच तनुजाः पांडवा इव ॥ २ ॥ आयो लक्ष्मीधराख्योऽभूत् द्वितीयो नामुताभिधः । तृतीयः पासडः ख्यातश्चतुर्थः कालियाभिधः ॥ ३॥ पंचमो जगदेवाख्यः सुकृतिकृतिवत्सलः । भार्या लक्ष्मीधरस्याभूत् कमलश्रीरिति नामिका ॥ ४ ॥ तत्कुक्षिमानसे राजहंसो राजाक इत्यभूत् । राजाकस्य मता भार्याऽभयश्रीरिति संज्ञया ॥ ५॥ तस्याः सुतद्वयं जज्ञे प्रथमोऽभयपालकः । द्वितीयो हरिचंद्राख्यश्चंद्रवच्चारुकांतिमान् ॥ ६॥ पासडस्य हि भार्याऽभूत् जयश्रीरिति नामतः । तयोः सुतद्वयं जातं पुत्रिकाद्वितयं तथा ॥ ७॥ यथार्थितखनामाऽभूत् कुलधरो धुरि कृती । द्वितीयो देवसिंहाहो देवादिगुरुभक्तिभाग् ॥ ८॥ पुत्रिका मोहिणिः ख्याता सदा धर्मपरायणा । द्वितीया सोहिणिर्जाता गुरुखजनवत्सला ॥९॥ कुलधरस्य भार्याऽऽसीत् देवश्रीरिति नामतः । रूपलावण्यसंयुक्तो नरसिंहः सुतोऽभवत् ॥ १० ॥ नरसिंहस्य भार्यास्ति नाम्ना लाच्छीति विश्रुता । कलत्रं देवसिंहस्य देवमतिरिति श्रुता ॥ ११॥ तस्याः सुतद्वयं जातं पुत्रिकात्रितयं तथा । आद्यो नयणसिंहाख्यः परः पृथिमसिंहकः ॥ १२ ॥ पुत्रिका मयणू नानी द्वितीया भीमिणिस्तथा । तृतीया आल्हूका जाता खाजन्यगुणवत्सला ॥ १३ ॥ कलत्रं कालियाकस्य धनश्रीरिव देहिनी । तस्याः कुक्षिसमुद्भूतौ पुत्रौ धीणा-धरणिगौ ॥ १४ ॥ मेइणीति तथा पुत्री हांसिका-झंझुके परे । जगदेवस्य जायाऽस्ति नगश्रीरिति संज्ञया ॥ १५॥ तस्याः कुक्षेस्तु संजातास्तनूजास्त्रय इहोत्तमाः । आद्यः क्षेमसिंहस्तु पांगुरश्च वयंजलः ॥ १६ ॥ पुत्रिकात्रितयं जज्ञे छाडि केलु च लीलुका । भार्याऽस्ति क्षेमसिंहस्य रूपिणीति सुविश्रुता ॥ १७ ॥ जातं तत्पुत्रचतुष्कं लक्ष्मणो हरदेवकः । तृतीयोऽरपति म चतुर्थो वेलुकाभिधः ॥ १८ ॥ ........................" | खूडा भार्या च चाडुल तत्पुत्रः पद्मनामकः ॥ १९ ॥ इत्थं कुटुंबेन समं विचिन्त्य संसारसर्वखमनित्यमेव । खकीयमातुः परिपुण्यहेतुः श्रीवीरवृत्तं परिलेखयित्वा ॥ २० ॥ पुस्तकं वाचयामास देवसिंहो महामतिः । नंदताद् यावच्चंद्रार्क संघेन सह सर्वथा ॥ २१ ॥ ॥ शुभं भवतु ॥ 15 [९३] 25 धर्कटवंशीय-श्रे० शांति-लेखित-उत्तराध्ययनबृहद्वृत्ति-पुस्तकप्रशस्तिः । __ [ लेखनसमयो नोपलब्धः] श्रीश्रीमालपुरीय-धर्कटमहावंशः सुपर्वोज्ज्वलः, सच्छायः सरलः सुमूलसहितः ख्यातोऽस्ति भूमंडले । यक्षाख्योऽथ बभूव तत्र गुणभृद् मान्यः क्षितीशैरपि, ज्यायोवृद्धविभूषितोऽमलतनुर्मुक्ताफलप्रोज्वलः ॥ १॥ विहितविशदचित्तः पात्रविन्यस्त वित्तः, प्रतिदिनशुभचर्यः सूद्यतः शिष्टधुर्यः । निरुपमशमभूमिः सद्यशःश्रीनिधानं, नयविनयवरिष्ठः श्रावकः सत्प्रतिष्ठः ॥ २॥ * एतत्प्रशस्तिसंयुक्तं पुस्तकं स्तम्भतीर्थे शान्तिनाथमन्दिरावस्थितज्ञानभाण्डागारे विद्यते। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002781
Book TitleJain Pustak Prashasti Sangraha 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1943
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & History
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy