________________
॥ सिंघीजैनग्रन्थमालासम्पादकप्रशस्तिः॥
खस्ति श्रीमेवपाटाख्यो देशो भारतषिश्रुतः। रूपाहेलीति सन्नानी पुरिका तत्र सुस्थिता॥ सदाचार-विचाराभ्यां प्राचीननृपतेः समः । श्रीमञ्चतुरसिंहोऽत्र राठोडान्वयभूमिपः॥ तत्र श्रीवृद्धिसिंहोऽभूद् राजपुत्रः प्रसिद्धिमान् । क्षात्रधर्मधनो यश्च परमारकुलाग्रणीः॥ मुख-भोजमुखा भूपा जाता यस्मिन् महाकुले। किं वय॑ते कुलीनत्वं तत्कुलजातजन्मनः॥ पत्ती राजकुमारीति तस्याभूत गुणसंहिता । चातुर्य-रूप-लावण्य-सुवाक्सौजन्यभूषिता॥... क्षत्रियाणीप्रभापूर्णा शौयोद्दीप्तमुखाकृतिम् । यां दृष्ट्रव जनो मेने राजन्यकुलजा ह्यसौ॥ पुत्रः किसनसिंहाख्यो जातस्तयोरतिप्रियः। रणमल्ल इति चान्यद् यन्नाम जननीकृतम् ॥ श्रीदेवीहंसनामाऽत्र राजपूज्यो यतीश्वरः । ज्योतिभैषज्यविद्यानां पारगामी जनप्रियः॥ अष्टोत्तरशताब्दानामायुर्यस्य महामतेः । स चासीद् वृद्धिसिंहस्य प्रीति-श्रद्धास्पदं परम् ॥ तेनाथाप्रतिमप्रेम्णा स तत्सूनुः खसन्निधौ । रक्षितः, शिक्षितः सम्यक, कृतो जैनमतानुगः॥ दौर्भाग्यात् तच्छिशोर्खाल्ये गुरु-तातो दिवंगतौ । विमूढेन ततस्तेन त्यक्तं सर्वं गृहादिकम् ॥
तथा चपरिनन्यायदेशेषु संसेव्य च बहुन नरान् । दीक्षितो मुण्डितो भूत्वा कृत्वाऽऽचारान् सुदुष्करान् ॥ हातान्यनेकशास्राणि नानाधर्ममतानि च । मध्यस्थवृत्तिना तेन तत्त्वातत्त्वगवेषिणा॥ अपीता विविधा भाषा भारतीया युरोपजाः। अनेका लिपयोऽप्येवं प्रत्न-नूतनकालिकाः॥ येन प्रकाशिता नैके प्रन्था विद्वत्प्रशंसिताः। लिखिता बहवो लेखा ऐतिह्यतथ्यगुम्फिताः॥ यो बहुभिः सुविद्भिस्तन्मण्डलैश्च सत्कृतः जातः स्वान्यसमाजेषु माननीयो मनीषिणाम् ॥ यस्य तां विश्रुतिं श्रुत्वा श्रीमद्गान्धीमहात्मना । आहूतः सादरं पुण्यपत्तनात् स्वयमन्यदा ॥ पुरेवाहम्मदाबादे राष्ट्रीयः शिक्षणालयः। विद्यापीठ इति ख्यातः प्रतिष्ठितो यदाऽभवत् ।। आचार्यस्खेन तत्रोचनियुको यो महात्मना । रस-मुँनि-निधीन्द्वब्दे पुरातत्त्वाख्यमन्दिरे॥ वर्षाणामष्टकं यावत् सम्भूज्य तत् पदं ततः। गत्वा जर्मनराष्ट्र यस्तत्संस्कृतिमधीतवान् । तत आगत्य सल्लग्नो राष्ट्रकार्ये च सक्रियम् । कारावासोऽपि सम्प्राप्तो येन खराज्यपर्वणि ॥ क्रमात् तस्माद् विनिर्मुक्तः स्थितः शान्तिनिकेतने । विश्ववन्धकवीन्द्रश्रीरवीन्द्रनाथभूषिते ॥ सिपी पदयुतं जैनशान पीठं यदाश्रितम् । स्थापितं तत्र सिंघीश्रीडालचन्दस्य सूनुना ॥ श्रीबहादुरसिंहेन दानवीरेण धीमता । स्मृत्यर्थं निजतातस्य जैनशानप्रसारकम् ॥ प्रतिष्ठितश्च यस्तस्य पदेऽधिष्ठादसम्झके । अध्यापयन् वरान् शिष्यान् ग्रन्थयन् जैनवाडायम्॥ तस्यैष प्रेरणां प्राप्य श्रीसिंधीकुलकेतुना । स्वपितृश्रेयसे होषा प्रारब्धा ग्रन्थमालिका ॥ अथैवं विगतं यस्य वर्षाणामष्टकं पुनः। प्रन्थमालाविकाशार्थिप्रवृत्ती यततः सतः॥ बाणे-रले मेवेन्द्रन्दे मुंबाईनगरीस्थितः। मुंशीति विरुदख्यातः कन्हैयालालधीसखः॥ प्रवृत्तो भारतीयानां विद्यानां पीठनिर्मिती कर्मनिष्ठस्य तस्याभूत् प्रयत्नः सफलोऽचिरात् ॥ विदुषां भीमतां योगात् संस्था जाता प्रतिष्ठिता। भारतीय पदोपेत विद्याभवन सञ्चया ॥ आहूतः सहकार्यार्थ सुहदा तेन तत्कृतौ। ततःप्रभृति तत्रापि सहयोगं स दत्तवान् ॥ तड़पनेऽन्यदा तस्य सेवाऽधिका ह्यपेक्षिता। खीकृता नम्रभावेन साऽप्याचार्यपदात्मिका ॥ नन्द-निध्यक-चन्द्राब्दे वैक्रमे विहिता पुनः। एतद्ग्रन्थावलीस्थैर्यकृद् येन नूनयोजना॥ परामर्शात् ततस्तस्य श्रीसिंघीकुलभाखता । भा विद्याभवनायेयं ग्रन्थमाला समर्पिता॥ विवचनकताहादा सच्चिदानन्ददा सदा। चिरं नन्दत्वियं लोके जिनविजयभारती॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org