SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ -IV. 18 : Verse 54] कुवलयमालाकथा ४ *71 स्थानं निवेश्य धर्म पप्रच्छ । सधैरपि निजनिजागमानुसारेण धर्मो निवेदितः परं तस्य चेतसि स्थिति न 1 बबन्ध । ततो राशा जैनमुनयः पृष्टाः । 'यूयं निजं धर्म निवेदयत । ततो गुरुणा 'यो धर्मः कुलदेवतया 3 निवेदितः स एव धर्मो धर्मसारः' इति प्ररूपितः। ततोभूपः कुमारं विलोक्य बभाषे । 'सम्यगेवैष मोक्ष- 3 मार्गक्षम इति । सर्वेषामपि धर्माणामेष एव मुख्यः । एष एव कुलदेवतया दत्तः। इक्ष्वाकूणामयमेव कुलधर्मः।' कुमारेण विज्ञप्तम् । 'यदाहं तुरङ्गमाविष्टस्तदैतस्यैव धर्मस्य बोधार्थ देवेनापहृतः। मयारण्ये 6 मुनिसिंहदेवा विलोकिताः पूर्वभवसंगताः पूर्वभवे ऽप्यमुमेव धर्ममाराध्य ते स्वर्ग गतवन्तः। तैरप्येनं 6 धर्म निवेद्य कुवलयमालाबोधार्थमस्मि प्रेषितः। येन च शुकेन तं देशं गतानामस्माकं प्रवृत्तिर्भवतां पुरो निवेदिता तेनाप्ययमेव सार्वज्ञो धर्मो दृष्टः। रजोहृतिः कराम्भोज भेजे यस्य नरेश्वरः । पुरन्दरो ऽपि तं स्तौति सादरं विगतादरम् ॥ ३६॥ स्वयं स्वामी जगन्नाथ पाथोनाथः कृपाम्बुनः । सभायामादिशद्धर्मममुमेव जिनेश्वरः॥ ३७॥ साधवो ऽपि मया दृष्टा धर्मे ऽत्र स्थितिशालिनः । उत्पाद्य केवलज्ञानं महोदयपदं ययुः ॥ ३८॥ 12 तेन विज्ञप्यसे तात जैनधर्मः सुशर्मदः । सर्वेषामेव धर्माणामयमेव मनोरमः ॥ ३९॥ 12 दुर्वारवारणाकीर्ण रगत्तुङ्गतुरङ्गमम् । भवेद्राज्यमपि प्राज्यं न धर्मस्तु जिनोदितः ॥ ४०॥ ६१२) तावदेव भवता भवतापहारी दर्लभो जिनधर्मः प्राप्तस्ततो निपणेन त्वयायं विधेयः।' राजा 15 'तथा' इति प्रतिपद्य प्रोवाच । 'अहो, सत्यमेतद्यदेष धर्ममार्गो दुर्लभः । तथा वयं पलितकलितशिरस: 15 संजाताः परं धर्माणामन्तरं नावगतम्' । 'भोस्तपोधनाः, तत्रभवतां भवतां स्थानं न वयं जानीमः।' गुरु णोक्तम् । 'राजन्, बाह्योद्याने कुसुमगृहचैत्ये ऽस्ति ।' राज्ञोक्तम् । 'व्रजत यूयं स्थानं कुरुत कर्तव्यानि, 18 प्रभाते समेष्यामि' इति वदन् कुमारमहेन्द्राभ्यां समं मापतिरुत्तस्थौ साधवोऽपि स्वं स्थानमलंचक्रुः।18 तो दृढवर्मावशेषमपि भवस्वरूपं मायागोलकमिव, इन्द्रजालमिव, आदर्शप्रतिबिम्बमिव नेत्ररोगिविभावरीवरयुगलावलोकनमिव, मरुमरीचिकानिचयाधभासनमिव गन्धर्वपुरनिरूपणमिव, अविचारित21 रामणीयकमिवा किंचित्करमनुपादेयं विचिन्त्य संजातवैराग्यः कुवलयचन्द्राय सप्ताङ्गं राज्यं ददौ, इति 21 च शिक्षा तं प्रति जगाद । 'वत्स कुवलयचन्द्र, शातयुक्तायुक्तस्य पठितसर्वशास्त्रसार्थस्य तव धवलितधवलनमिव पिष्टपेषणमिव विभूषितविभूषणमिव शिक्षाप्रदानं, परं पुत्रप्रीतिर्मा मुखरयति । 24 दुरन्तदुरितोपायाश्चपलाचपलास्तथा। स्त्रियः श्रियश्च तत् क्वापि मा भूयास्तद्वशंवदः॥४१॥ 24 उच्चस्तरं पदं प्राप्य त्वया कार्यविदा सदा । गुरवो न लघुत्वेन दर्शनीयाः कदाचन ॥४२॥ त्वया बद्धानुरागेण पालनीया निजाः प्रजाः । यतः प्रजालता नीतिनीरसिक्ताः फलन्त्यमूः ॥ ४३ ॥ अन्तरङ्गारिषड्वर्गजयाय भवतादरः । शास्त्रे शस्त्रे च कर्तव्यो बहिरङ्गारिशान्तये ॥४४॥ आराध्या सर्वदा विद्यानवधाः स्थविरास्त्वया । मन्जतां ध्यसनाम्भोधौ वृद्धसेवा हि मङ्गिनी ॥ ४५ ॥ राज्यश्रीः काममाहेयी न्यायगोभक्तपोषिता । निकामं कामदुग्धानि प्रसूते वसुधाभुजाम् ॥ ४६॥ 30 ६१३) इति शिक्षा दत्त्वा दत्तदीनजनदानः संमानितस्वजनः कृतचैत्याष्टाहिकामहः सुतकारितां 30 शिबिकामारुह्य नृपो गत्वा कुसुमगृहचैत्ये तस्यैव गुरोरन्तिके प्रावाजीत् । तदने करुणावता गुरुणा ___ मनुष्यभवोपरि युगसमिलापरमाणुदृष्टान्तौ प्ररूपितौ । तथा हि। 33 समग्रद्वीपवार्थीनां पर्यन्ते ऽस्ति महोदधिः । स्वयंभूरमणो नाम वलयाकारतां गतः॥४७॥ 33 देवः कोऽपि युगं प्राच्यां प्रतीच्यां स मिलां पुनः । स्थापयेदथ सा भ्रष्टा जले तत्रातलस्पृशि ॥४८॥ अपारे चानिवारे च परितोऽपि चलाचला । युगे चलाचले योगं लभते न कथंचन ॥ ४९ ॥ युग्मम् ॥ 36 प्रचण्डवातवीचीभिः प्रेरिता सा कथंचन । युगे न लभते योगं जन्तुर्न तु जनुर्नृणाम् ॥५०॥ 36 [युगसमिलादृष्टान्तः।] तथाहि त्रिदृशः कश्चिदारासनदृषन्मयम् । स्तम्भं महान्तमाचूर्य दग्निक्षेपनि व्यधात् ॥५१॥ 39 तचूर्ण स समादाय तूर्ण गत्वा सुराचले । चूलिकायामवस्थाय नलिकां स्वकरे ऽकरोत् ॥ ५२॥ 39 तत्रस्थितेन फूत्कृत्य तया ते प्रचुरोजसा । ते ऽणवः पातिताः सर्वे दिशासु चतसृष्वपि ॥ ५३॥ कल्पान्तकालमोन्मीलदुद्दाममरुता हताः। सर्वे ऽपि पश्यतस्तस्यादृश्यास्ते जज्ञिरे क्षणात् ॥ ५४॥ 27 27 5) PB तुरंगमाविश्य एतस्यैव. 8) Pसर्वज्ञो धर्मः. 9) B नरेश्वर, B विन (ने?) यादरं for विगतादरं. 10) B जगन्नाथः. 19) B नेत्ररोगिणा (णा added above the line) विभावरी. 21) B सप्तांगराज्यं. 30) B°चैयाष्टाहिकस्तत्कारिता. 36) 0 adds here [युगसमिलादृष्टान्तः] at the end of verse No, 50. 39) Pom. स. 40) P पूत्कृत्य, B ति for ते.. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002778
Book TitleKuvalayamala Part 2
Original Sutra AuthorUdyotansuri
AuthorA N Upadhye
PublisherBharatiya Vidya Bhavan
Publication Year1970
Total Pages368
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy