________________
-III. $ 22 : Verse 277] कुवलयमालाकथा ३
* 43 1 अस्माकं पुनः परायत्तानां सदैव निबिडनिगडवर्जितो बन्धनविधिः । अपर्वतपादपं पतनम् । सजीवं 1
मरणम् । एकस्तावदिति वदति 'यदिदं विधेहि' । अन्यो जल्पति 'यदिदं समाचरेः' । परः 'चरणौ 3 क्षालय' । अन्यो ‘वाराभूमि प्रमार्जय' । इतरो 'विश्रामणां कुरु' । एको 'वन्दनकं ददस्व, प्रतिक्रमणं 3 विरचय' । इत्यादिविविधवचनैरनारतं प्राजनैरिव प्रेर्यमाणस्य मम नास्ति निमेषमात्रमपि नारकस्येव सुखावकाशः । तदेते ऽस्मत्तः प्रधानाः' इति चिन्तयन् गुरुभिः सह वसतिमायातवान् । स च कियन्त6 मपि कालं श्रामण्यमनुपाल्य तद् दुश्चिन्तितशल्यं गुरूणां पुरतो ऽनालोच्याकालमृत्युना ज्योतिष्केषु 6 किंचिदूनपल्यायुः सुपर्वा बभूव । तत्र भोगान् भुक्त्वा च्युत्वास्या एव नगर्याः पूर्वोत्तरदिग्विभागे स काननान्तरस्थल्यामुन्दरत्वं प्राप्य यौवनमितो ऽनेकमूषिकाभिः समं कीडन् कदाचिद्विवराद्वहिरुपेतः सुर9 भिगन्धोदककुसुमवृष्टिगन्धमाघ्राय तदनुमार्गानुसारेणात्र समवसृतौ समागत्य धर्म श्रोतुं प्रावर्तत । अथा- 9 मुष्य मद्वचः शृण्वतो जातिस्मृतिरुदपद्यत । 'यदहं पूर्वभवे सशल्यं व्रतमापाल्य ज्योतिप्केषु देवत्वमवाप्य
कान्तारान्तरचारी मूषकः संजातः। एतत्स्मृत्वा 'अहो, कीदृशः कर्मपरिणामः, धिग्विलसितं संसारस्य 12 यद्देवत्वमुपलभ्य तिर्यगजातौ मूषकः समुत्पन्नः । अधुना तदासन्नं श्रीभगवतः पादमूलमुपागत्य प्रणिपत्य 12
च पृच्छामि किमहं मूषकभवादनन्तरं प्राप्स्यामि' इति चिन्तयन् मम समीपमुपससर्प । भक्तिभरनिभृ
तस्वान्तः सुचेतसा स्तोतुमारेमे। 15 'तवानालोपिनो ये ऽत्र लोकत्रयशिरोमणे । जायन्ते जन्तवो दूरं दुर्गतो ते भ्रमन्ति हि ॥' २७२ 15
२१) ततो जानता गणभृता लोकबोधार्थ प्रभुः पृष्टः । 'भगवन् , किमनेन निर्ममे, यदनुभावेनेदृश एष जातो ऽस्ति' इति । प्रभुः प्राह । 'प्राग्भवे ऽनेन वतिना सता गच्छवासनियन्त्रणानिर्विण्णचेतसा 18 बहिर्भूमिं गतेन खैरंविहारिणो मूषकान् दृष्ट्वेति चिन्तितं यथा 'अरण्यमूषका धन्यतमाः । इति दुश्चिन्त-18 नशल्ययुतव्रतपालनानुभावेन देवत्वमूषकत्वयोग्यमायुर्निबद्धम् ।' अथ भूयो ऽपि पृष्टं भगवतः पार्श्वे
गणधरण । 'नाथ, किं सम्यग्दृष्टिजीवो ऽपि तियंगायुर्बध्नाति न वा' इति । स्वामिनोक्तम् । 'सम्यग्द21ष्टिजीवस्तिर्यगायुरनुभवति, न पुनर्बध्नाति । यतः,
भवद्वैमानिको ऽवश्यं जन्तुः सम्यक्त्ववासितः । यदि नोद्वान्तसम्यक्त्वो बद्धायुर्न पुराथवा ॥ २७३ तावदेतेन देवत्वे सम्यक्त्वं वान्त्वायुस्तिर्यक्त्वे निबद्धम्' इति । ततस्त्रिदशेशेन जल्पितम् । 'भगवन् , 24 अयं संप्रति शीघ्रं कथं सिद्धिगामी' इति । निवेदितं च भगवता । 'इतश्चैष स्ववनस्थल्यां व्रजन् चिन्तयि-24 ष्यति । 'अहो दरन्तः संसारः, कुशाग्रबिन्दवच्चञ्चलं जीवितव्यं, चपला विषयतााः , न वरेण्यं निदा
नादिशल्यम् , अधमा मूषकजातिः, दुष्प्रापः श्रीजिनप्रणीतः पन्थाः, ततोवरमत्र नमस्कारपरायणो म्रिये, 27 यथा विरतिप्रधानं जन्म लभेयम् । इति चिन्तयन् तस्मिन्नेव स्थाने भक्तं प्रत्याख्यायैतदेव मद्रचोऽतीव 27
दुष्टं भवस्वरूपं च निरूपयनमस्कारपरो भावी । तत्रैतस्य तिष्ठतो मूषिकास्तन्दुलकोद्रवादिकं तत्पुरो मोक्ष्यन्ति । ततस्तन्निरीक्ष्य मूषकश्चिन्तयिष्यति। 30 'मेरोरधिकमाहारं पयोधेरधिकं पयः । अनारतं भवं भ्राम्यनेष जन्तुरुपाददे ॥ २७४
तत्तेन चेन्न तृप्तो ऽयं भक्षितैस्तदिमैः कणैः । का नाम प्राप्स्यते तृप्तिः स्थास्यतीति विचिन्तयन् ॥ २७५
६२२) ततस्तदभिमुखमीषदपि मूषको न विलोकयिष्यते, तच्च तादृशं वीक्ष्य ता मूषिकाश्चिन्त33 यिष्यन्ति । 'कुतो हेतोरयमस्मत्पतिः कुपितस्तदेनं प्रसादयामः' इति चिन्तयन्त्य एतत्समीपमुपेष्यन्ति । 33 ततः काश्चिदुत्तमानं कण्डूयन्ति, अपरा अङ्गं परिस्पृशन्ति । एवमुपचर्यमाणस्ताभिरभित एष चिन्तयिता 'सदैव नरकनिगमा इमा रामाः संसारदुःखमूलम् ।' ततस्ताभिरेतन्मनो न कथमपि समाधितः स्वर्णाद्रि36 शृङ्गवत्सशब्दवातोत्कलिकाभिः क्षोभयिष्यते, तत्कृतं सर्वथैव वृथा भावि एतस्मिन् वज्र नखविलेखनमिव । 36
ततस्तृतीयदिन एष क्षुधाक्षामकुक्षिविपद्य मिथिलानगर्यां मिथिलस्य राशचित्राभिधाया महादेव्या उदरसरसि राजहंसलीलामलंकरिष्यति । तेन च गर्भस्थेन जनन्याः सर्वसत्त्वानामुपरि मैत्रीवासनावासितम39 न्तःकरणं भविता । स च भूपस्तस्य जातस्य 'मित्रकुमारः' इति नाम दास्यति । तस्य कौतूहलिनः कुमारस्य 39 ताम्रचूडकपिपशुसम्बरहरिणमूषकादिभिर्नियन्त्रितैरेव क्रीडां कुर्वतो ऽष्टवर्षाणि यास्यन्ति ।
अन्यदा मेघमालाभिः पिहितव्योममण्डलः । विप्रलम्भभृतां कालः प्रावृट्कालः समागमत् ॥ २७६ 42 सरितः प्राप्य यत्रापः पातयन्ति तटदुमान् । पीडयन्ति न के नीचाः श्रियं प्राप्य महीभृताम् ॥ २७७ 42
21
30
3) B विश्रामणं कुरु. 14) 0 B स्वचेतसा. 15) 0 ते for हि. 21) com. न पुनर्बध्नाति. 29) PB मूषकश्चितयति. 31) B तृप्ति- 32) PB °भिमुखमीषन्मूषको विलोकयिष्यते. 37) B भिधानाया.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org