SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ 15 * 28 रत्नप्रभसूरिविरचिता __ [II. F38 : Verse 1551भक्षितमिति चिन्तयन्ती तदनुमार्गमनुसरन्ती कस्मिन्नपि गोष्ठे कस्याश्चिदाभीर्या वेश्मनि समागता । तया 1 'दुहिता' इति स्थापिता । तत्र कियन्ति दिनानि स्थित्वा प्रामानुग्रामं परिभ्रमन्ती पाटलीपुत्रं साण्या3याता । तत्र कर्मसंयोगेन तस्मिन्नेव दूतगृहे सा प्रविष्टा । तत्र च दूतकान्तया तहुहिता तस्या एव प्रति- 3 पालनार्थमर्पिता । सुवर्णदेवा तामात्मीयां सुतामजानन्ती केवलं तत्सुतामेव हृदि भावयन्ती तां वर्धयि तुमारभत । सा सुता क्रमेणोदग्रयौवनप्राग्रहरा लावण्यातिशायिनी सौभाग्यभूमिका चातुर्यधुर्या जाता। 6 ६३८) इतश्च जनमनःप्रमोदभरदायिनि मधुरमधुकरनिकरध्वनिताकुले वसन्तकाले मदनत्रयोदश्यां 6 बाह्योद्याने कामदेवस्य यात्रां वीक्षितुं मातृसखीपरिवृता गता वनदत्ता । स्वैरं परिभ्रमन्ती च तत्रागतेन मोहदत्तेन विलोकिता, तया च सः । तयोः परस्परं विलोकनेन प्रीतिः समभूत् । तत्रान्योन्यदर्शननीर9 संसिक्तस्नेहमहीरुहं मिथुनं महती वेलां यावत्तस्थौ, तावत्सुवर्णदेवया स्वदुहितरि गाढतरं मोहदत्तानुराग 9 विभाव्य जल्पितम्। 'वत्से, तवेहागताया गुर्वी वेला जाता, तव पितापि दुःखाकुलितमानसो भविष्यतीति तावत्प्रवर्तस्व गृहं व्रजामः । यदि तावत्तव कौतुकं ततो वत्से, मदनोत्सवे निवृत्ते निर्जने कानने समागत्य 12 पुनर्निजेच्छया भगवन्तमनङ्गं विलोकयेः' इति जल्पन्ती तया समं वनान्निर्गता। चिन्तितं च मोहदत्तेन । 12 'अहो, एतस्या ममोपरिसमस्ति स्नेहः' इति सुवर्णदेवावचो ऽवश्यं संकेतजनकं परिभावयन्मोहदत्तः काननान्निःससार । सा वनदत्ता काममहापिशाचग्रस्तेन देहेन निकेतनमायाता न पुनश्चेतसा । तत्रा 15 गुरुविरहज्वलनज्वालावलीकरालदेहा कङ्केल्लिपल्लवाकीर्णशयनीयतलस्थिता । वितीर्णास्थानहुंकारा कामज्वरभरातुरा ॥ १५५ मृणालवलया रम्भादलावरणसंवृता । चन्दनद्रवसंसर्गसर्वाङ्गलतिका तदा ॥ १५६ ___18 निर्गच्छदुष्णनिःश्वासशुष्यमाणाधरावनी । परित्यक्तकलाभ्यासपुष्पताम्बूलभूषणा ॥ १५७ 18 विच्छायवदनाम्भोजा दिवा चन्द्रकलेव या । न पल्यके न वा भूमितले प्राप्तसुखाभवत् ॥ १५८ चतुर्भिः कलापकम् ॥ 21 ६३९) वनदत्तान्यदा मदनोत्सवे व्यतीते तस्मिन्नेवोद्याने गन्तुकामा जननीसखीजनान्विता राज-21 मार्गे तोसलराजपुत्रेण वीक्षिता । देशान्तरपरावर्तितरूपयौवनलावण्यवर्णस्तोसलस्तया सुवर्णदेवया न प्रत्यभिज्ञातः । तेन सापि दूरदेशान्तरासंभावनीयसमागमा नावगता । केवलं तस्य तोसल24 राजपुत्रस्य वनदत्ताया उपरि महती प्रीतिरुत्पन्ना । चिन्तितं च तेन । एतां चारुलोचनां द्रव्यदानेन 24 विक्रमेण वापरेण वाप्युपायेन परिणेष्यामि । सुन्दरमभवद्योषा बाह्योद्यानभुवं प्राप्ता । ततोऽहमपि तदनुमार्गलग्नो यास्यामि' इति विचिन्तयन् गन्तुं प्रवृत्तः । सा च वनदत्ता करिणीव सुललितगमना 27 क्रमेण वनान्तर्विचचार । इतश्च गुरुतरानुरागदत्तहृदयेन तोसलेन लोकापवादमनपेक्ष्य दूरतो ब्रीडांआ विमुच्य जीविताशामपि परित्यज्य भयमवगणय्य चिन्तितम् 'अयमत्रावसर इति । ततः कर्षितकराल करवालो महामोहमूढमानसस्तोसलो बभाण । 'भद्रे, यदि जीवितेन ते कार्य तदा मयैव समं रमखेति । 30 अन्यथा कृपाणलतयानया भवतीं कथाशेषां करिष्ये ।' तत्तादृशं वृत्तं वीक्ष्य हाहारवमुखरे सखीजने 30 सुवर्णदेवया च पूञ्चके । 'भो भो जनाः, त्वरितं प्रधावत प्रधावत, अनेन मम पुत्री निरपराधैव कानने व्याधेन हरिणीव विनाश्यते।' 33 ६४०) इतश्च सहसा मोहदत्तः कदलीगेहतः कर्षितनिस्त्रिंशो निःसृत्य प्रोवाच । 'रे रे पुरुषाधम 33 अग्राह्यनामधेय निस्त्रप, स्त्रीषु प्रहरसि । अहमस्या रक्षकस्तन्मम संमुखो भव।' इति श्रुत्वा तोसलस्तदभिमुखं प्रत्यधावत । तोसलेन मोहदत्तस्य कृपाणप्रहारः प्रदत्तः । तेन च मोहदत्तेन करणकौशलेन 36 तस्य प्रहारं वञ्चयित्वा प्रतिप्रहारेण तोसलराजपुत्रः कृतान्तदन्तक्रकचगोचरीकृतः । ततो मोहदत्तो वन-36 दत्ताभिमुखं चलितः । तया स जीवितदातेति प्रियः प्रतिपन्नः । सुता जीवितेति हृष्टमानसा सुवर्णदेवा समभवत् । मोहदत्तेन भणितम् । 'भद्रे, विश्वस्ता भव, कम्पं मुञ्च, भयं मा कार्षीः।' ततस्तेन मोहितेन 39 मोहदत्तेनालिङ्गय यावत्तया सह रंस्यते तावदकस्मादेव दीर्घमधुरः स्वरस्तस्य कर्णातिथित्वं भेजे। 39 'जनक मारयित्वापि जनन्याः पुरतोऽपि च । अरे रिरंससे मूढ स्वसारमपि संप्रति ॥' १५९ ततो मोहदत्तेन विलोकितो ऽपि क्वापि को ऽपि न दृष्टः । एवं वारत्रयाकर्णनजातशङ्कः कोपकौतूहला42 बद्धचित्तः खड्गरत्नव्यग्रपाणिर्मोहदत्तः सर्वतः काननान्तर्विलोकितुंप्रारेमे । तावद्भगवान् साक्षादिव धर्म 42 ___4) B सुवर्णदेवी, PB om. ता. 7) PB परिभृता. 8) P B om. तया च सः ।. 11) निर्वृत्ते. 13) B समस्तस्नेह. 26) Pom. च. 30)0°मुखरेण सखीजनेन. 41) P B om. विलोकितोऽपि, P जाताशंकः. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002778
Book TitleKuvalayamala Part 2
Original Sutra AuthorUdyotansuri
AuthorA N Upadhye
PublisherBharatiya Vidya Bhavan
Publication Year1970
Total Pages368
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy