________________
1
* 8
रत्नप्रभसूरिविरचिता
[I. $ 18 : Verse 37पण्डितान् पूजयामास बालकांश्च नराधिपः । पाठकोलाहलोत्तालान् वहतः सूतिमातृकाः ॥ ३७ 1
प्रीणयन्नर्थिनां सार्थमथैर्भुजबलार्जितैः । सूनोर्जन्मोत्सवं चारु चकार पुरि भूपतिः ॥ ३८ 38१४) ततो राजा समाकार्य वर्य मौहर्तिकं संमान्य पप्रच्छ । 'हंहो सांवत्सरिक, कथय कुमारस्य 3
जन्मनक्षत्रग्रहाणां फलम् ।' दैवज्ञेन निवेदितम् । 'देव शृणु। आनन्दः संवत्सरः। ऋतुः शरत्समयः । मासः कार्तिकः । तिथिर्विजया। वारो बुधः। नक्षत्रं हस्तः। राशिः कन्या । योगः सुकर्मा । 6 सौम्यग्रहनिरीक्षतं लग्नम्। संपूर्णबलाः सर्वे ऽपि ग्रहाः सौम्याः, एकादशस्थानस्थिताः पापग्रहाः। 6 अपि च।
____वीक्षिते ऽत्र ग्रहैः सौम्यैर्मुहूर्ते स्फूर्तिशालिनि । चक्री वा चक्रितुल्यश्च सुतो जातो भवेदसौ ॥' ३९ 9 नृपेणोक्तम् । 'गणक, कति राशयः, के वा राशिगुणाः।' निवेदितं निमित्तविदा। 'देव, अवधारय । 9
तद्यथा, .
15
मेषो वृषाख्यो मिथुनश्च कर्कटः सिंहश्च कन्या च तुला च वृश्चिकः । 12 धनुःप्रवीणैर्मकरश्च कीर्तितः कुम्भश्च मीनः कथिताश्च राशयः ॥ ४०
12 __ सांप्रतमेतेषु राशिषु जातस्य पुरुषस्य महिलाया वा गुणगण आकर्ण्यताम् ।
शूरः कृतज्ञो दीर्घोरुश्चण्डकर्मा पुनर्मुदुः । लोलचक्षुः प्रियः स्त्रीणां मेषजातो भवेन्नरः ॥ ४१ सत्यवादी शुचिर्दक्षो भोगी त्यागी मनोरमः । सुमित्रश्चारुगमनो वृषे जातो भवेन्नरः ॥ ४२ 15 चलचक्षुश्च मिष्टान्नो मैथुनासक्तमानसः । कर्णरोगी धनेनाढ्यो जायते मिथुने नरः ॥ ४३ शूरः कृतज्ञो द्रव्याढ्यः कृशाङ्गो गुरुवत्सलः । कोपनो ऽत्यन्तदुःखार्तः कर्के जातो भवेन्नरः ॥ ४४ अभिमानी क्षमाशीलो जननीजनकप्रियः । मद्यमांसरतो नित्यं सिंहजातो भवेन्नरः ॥ ४५ 18 वृद्धभावे च धर्मार्थी सर्वलोकमतो धनी । कामिनीहृदयानन्दी कन्याजातो भवेन्नरः ॥ ४६
इर्ष्यालुमित्रवात्सल्यपरो दुःखनिकेतनम् । स्फुटवाक्यो विरागी च तुलाजातो भवेन्नरः ॥ ४७ 21 क्रूरः शूरः पिङ्गलाक्षो दर्पिष्ठो निष्ठुराशयः । धनी वियोगी पितृभ्यां वृश्चिके स्यान्नरः सदा ॥ ४८ 21
मेधावी सत्यभाषी च सर्वलोकमनोहरः । वर्यभार्यः सुतेजस्वी धनुर्जातो भवेन्नरः ॥ ४९
दर्शनीयः सुधीर्विद्वान् पुत्रवान् दीर्घजीवितः। परदारपरस्त्यागी मकरे जायते नरः॥ ५० 24 लोलदृष्टिगजाश्वाद्यासनो मानी विचक्षणः । पराक्रमी च तन्द्रालुर्जातः कुम्भे भवेत् पुमान् ॥ ५१ 24
शूरः समुद्रगम्भीरः स्पष्टवाक्यस्तु कोपनः । युद्धप्रधानो गर्विष्ठो मीने जातो भवेन्नरः ॥ ५२ राजाप्येतदाकर्ण्य निमित्तविदो रूपकानां सहस्रं प्रदाय समुत्तस्थौ । ततः प्रमुदितमना भूपतिर्वादश27 दिने समग्रमपि जनं संमान्य वासोभिः स्वप्नदृष्टकुवलयमालावृतचन्द्रदर्शनानुसारेण तनुजस्य द्विधापि 27
कुवलयचन्द्र इत्याख्यां वितीर्णवान् , अपरमभिधेयं श्रीदत्त इति । एवं धात्रीभिः पञ्चभिः परिपाल्यमानः समितिभिर्यतिधर्म इव कलाकलापेन प्रतिपच्चन्द्र इव, पितुर्मनोरथ इव प्रवर्धमानः, सहस्रकर 30 इव दिग्वधूत्संगसंगतः, सर्वैरपि करतलात्करतलं संचार्यमाणो ऽतिषितैरिवाशेषजनलोचनैः पीयमानः 30
सुधामय इव निर्मितः प्रजापतिनाष्टवर्षदेशीयः । समुद्रादप इव कुम्भभूः, दिनकरनिशाकरकरनिकरास्पृष्टे परिजनेनाप्यदृश्यमाने ऽमिलितगुरुजने विद्यागृहे यतिरिव जितेन्द्रियः, भोजनास्वादेऽप्यकृतादरः, 33 अनुकूलदुकूलयुगलपरिधाने ऽप्यदत्तावधानः, तिरस्कृतमुरासुरगुरुधिया कुशाग्रसब्रह्मचारिण्या मेधया 33 द्वादशवर्षाणि यावत् कलाचार्यपान्यिासीकृता इव कलाशालिकलाविमलाः सकला अपि कला हेलया कलयामासिवान् । 36 ६१५) अन्यदा च स कुमारः स्फाराकारः परिलसद्विक्रमाधारः कृतमजनभोजनोपचारश्चन्द-36
नानुलिप्तः प्रावृतैकक्षौमयुग्मः कण्ठनिक्षिप्तसुमनःसक् स्वसदृशप्रसाधनप्रसाधितोपाध्यायपृष्ठलग्नः पितुः पदपद्मयुग्मं नमस्कर्तुमुपागमत् । राजापि तं विलोक्य सकललोचनरोचनाकारं भास्वन्तमिव कमल39 खण्डो राकाशशाङ्कमिव रत्नाकरः स्मेरमनाः समभूत् । कुमारेण सविनयं प्रणतः क्षितिपस्तमुत्संगे 39 निवेश्य प्रोचिवान् । 'उपाध्याय, कुमारेण तत्रभवतो भवतः सकलो ऽपि कलाकलापः स्वीचके ।' ततः कलाचार्येणोक्तम् । 'देव, कुमारेण मत्सकाशात्काश्चिदपि कला न गृहीताः। किंतु कुमारो मेधानिधिः
3) o trans. समाकार्य after मौहूर्तिकं, P spells सन्मान्य. 13) " महेलाया, B गुणगणमाकण्यताम्. 14) दीर्घायुश्च'. 15) P वृषजातो. 17) C भवेत्पुमान्। 18) og भवेत्पुमान्। 25) ० मीनजातो. 28) 0 एवं पञ्चभिर्धात्रीमिः. 31) P समुद्रादाप. 36) Pच सुकुमारः. 37) P°नानुलिप्तप्रावृते. 40) P B add स after निवेश्य, P कलालापः.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org