________________
३५४
श्रीशुभचन्द्राचार्यवर्येण विरचितम् दाम्नी सुगंधे भ्रमरध्वनीद्धते
चंद्रं सुपूर्ण तिमिरस्य बारकं । सूर्य प्रतापं तनुजस्य वा परम्,
मीनद्वयं नेत्रयुगं स तस्य वा ॥ ३७॥ कुंभद्वयं दीप्र तनूजसे विधि
पद्माकरं पद्समूहमंडितं । वाद्धि गंभीरं मणि मीन मंडितं
सिंहासनं स्वर्णमणिप्रभाभृतं ।। ३८ ।। देवेंद्रयानं सुरभामिनीश्रितं
__नागेंद्रगेहं सुतसूतिसूचकं । रत्नप्रचायं सुनिधिं सुतस्यवा
निर्धूमवह्नि च ददर्श सा शुभा ॥ ३९ ॥ (चतु: कुलं) वक्त्रे गजेंद्र शुचि देहमुन्नतं । संविश्यमानं
सुविलोकयिष्यति । सा पूर्णचंद्राननिका मृगेक्षणा। संरक्षिता देववधू समूहकैः ।। ४० ॥ वीणादुंदुभिशंख काहलमहानादान्निशम्याशुसा बुद्ध वा मागधगीतशब्दनिकरात् प्रातः परिज्ञाय वै । उत्थायासनमुत्तमं जिनपते माताव्यलं चक्रके पूर्वाह्न हततामसा वरतरं भानोर्मरीचिर्यथा ॥४१॥ शिरसि मुकुटबंधं भालपट्टे च भालं, हृदि सुललिहारं कंकणं बाहुयुग्मे । धरति सुभगकर्णे कुंडलं मेखलां सा, अतिकृश शुभकट्यां नूपुरं पादपद्मे ॥ ४२ ॥ सपद्म महापद्मनाथं स्वनाथं
समासाद्य कांतं स्थितं विष्टरे च । प्रणम्य स्थिता वामभागे सुराज्ञी
प्रगल्भा महानर्मशर्मादिवाक्या ।। ४३ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org