SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ वीर निर्वाण संवत् और जैन काल-गणना ने भगवच्छासन में ४ करोड़ सुवर्ण देकर पृथिवी को छुड़ाया और बाद में संपदी का राज्याभिषेक किया । पाठकगण के दर्शनार्थ हम दिव्यावदान के उन अंशों को यहाँ उद्धृत करेंगे जिनका कि सार-भाग ऊपर लिखा है । "अपि च राधगुप्त, अयं मे मनोरथो बभूव कोटीशतं भगवच्छासने दानं दास्यामीति, स च मेऽभिप्रायो न परिपूर्णः । ततो राज्ञाऽशोकेन चत्वारः कोटयः परिपूरयिष्यामीति हिरण्यसुवर्णं कुर्कुटारामं प्रेषयितुमारब्धः । तस्मिश्च समये कुनालस्य संपदी नाम पुत्रो युक्राज्ये प्रवर्तते । तस्यामात्यैरभिहितंकुमार ! अशोको राजा स्वल्पकालावस्थायी इदं च द्रव्यं कुर्कुटरामं प्रेषयति कोशबलिनश्च राजानो निवारयितव्यः । यावत् कु मारेण भांडागारिक: प्रतिषिद्धः । यदा राज्ञोऽशोकस्याप्रतिषिद्धाः (?) तस्य सुवर्णभाजने आहारमुपनाम्यते, भुक्त्वा तानि सुवर्णभाजनानि कुक्कुटारामं प्रेषयति । तस्य सुवर्णभाजनं प्रतिषिद्धं रूप्यभाजने आहारमुपनाम्यते, तान्यपि कुक्कुटारामं प्रेषयति । ततो रूप्यभाजनमपि प्रतिषिद्धं यावल्लोहभाजन आहारमुपनाम्यते । तान्यपि राजा अशोकः कुर्कुटरामं प्रेषयति । तस्य यावन्मृद्भाजन आहारमुपनाम्यते । तस्मिंश्च समये राज्ञोऽशोकस्यार्धामलकं करांतर्गतम् । अथ राजाऽशोक: संविग्नोऽमात्यान् पौरांश्च संनिपात्य कथयति कः साम्प्रतं पृथिव्यामीश्वरः । ततोऽमात्य उत्थायाऽऽसनाद् येन राजाशोकस्तेनांजलिं प्रणम्योवाच-देवः पृथिव्यामीश्वरः । अथ राजाऽशोकः साश्रुदुर्दिननयनवदनोऽमात्यानुवाच दाक्षिण्यात् अनृतं हि किं कथयथ, भ्रष्टाधिराज्या वयम्, शेषं त्वामलकार्धमित्यवसितं यत्र प्रभुत्वं मम । ऐश्वर्यं धिगनार्यमुद्धतनदीतोयप्रवेशोपमम्, मत्येन्द्रस्य ममापि यत् प्रतिभयं दारिद्यमभ्यागतम् ॥१॥ ततो राजाऽशोकः समीपगतं पुरुषमाहूयोवाच-भद्रमुख । पूर्वगुणानुरागाद भ्रष्टैश्वर्यस्यापि मम इमं तावदपश्चिमं व्यापारं कुरु-इदं ममाऽर्धामलकं ग्रहाय कुर्कुटारामं गत्वा संघे निर्यातय, मद्वचनाच्च संघस्य पादाभिवन्दनं कृत्वा वक्तव्यं जम्बूद्वीपैश्वर्यस्य राज्ञ एष सांप्रतं विभव इति । इदं तावद् अपश्चिमं दानं तथा प्रतिभोक्तव्यं यथा मे संघगता दक्षिणा विस्तीर्णा स्यादिति । यावत्तदर्धामलकं चूर्णयित्वा यूपे प्रक्षिप्य संघे चारितम् । ततो राजाऽशोको Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002752
Book TitleVir Nirvan Samvat aur Jain Kal Ganana
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year2000
Total Pages204
LanguageHindi
ClassificationBook_Devnagari & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy