SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ मुरुगुणरत्नाकरकाव्यम् । ७५ शिष्यः सूरिवरश्च शिष्यवृषभचारित्रहंसोऽस्य यः। तस्य श्रीविबुधस्य शिष्यशिशुना काव्ये मुदा निर्मिते सर्गचात्र चतुर्थको गुरुगुणाद् रत्नाकराख्यायुते ॥१४१॥ (युग्मम्) इति श्रीपरमगुरुश्रीलक्ष्मीसागरसूरिभाग्यादिगुणवर्णनगर्भे गुरुगुणरत्नाकरनाग्नि काव्ये संवरना मेघा-संजेसिंग-कृतयात्रा विस्तरमहश्चतुर्थः सर्गः ।। यस्मिन् देशे विहारं विदधति यतिपा ये चतुर्मासकं वा तस्मिन् देशे सुभिक्षं भवति, न तु कदापीतिसंभूतिभीतिः । येषां माहात्म्यमीदग्विषमिह विबुधै तमास्ते नृपायैः श्रीलक्ष्मीसागराख्या गणघरगुरवः सन्तु वस्ते शिवाय ॥१॥ यत्कः पाश्चत्मतापः सवितुरतिशयी भूर्भुवःस्वप्रकाशी येषामास्ते यशोऽपि ज्ञपितुरभिनवं तामसध्वंस्यदोषम् । मुक्तापल्या यदीया गुणततिरधिका छिद्रमुक्ताऽपि तन्यात् यत्पुंसांकण्ठकान्ति तदिह गुरुवराः केन तुल्याः स्युरेते २॥ हंहो! गच्छत मा विदूरविषयान् वज्राकरं वार्णवं धातोर्वादविधौ भ्रमे पतत मा दुर्मन्त्रयन्त्रादिके। भूत्यय भविकाः! भजध्वमऽनिभानेतान् यथार्याऽभिधान् लक्ष्मीसागरगच्छनायकवरान् सर्वार्थसिद्धिप्रदान् ॥३॥ समेरुरखाकररवगर्भा विभाखरौ राजरवी च यावत् । राजन्ति जैनेन्द्रमतं जनेमिस्तावनवं नन्दतु काव्यमेतत् ॥ ४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002741
Book TitleJagadguru evam Gurugunratnakar Kavyam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinshasan Aradhana Trust
Publication Year2000
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy