________________
१०
महीमण्डलं मण्डयामासुः ? इत्येतद्विषया जिज्ञासा तु-"श्रीशान्त्याचार्यविरचितं चैत्यवन्दनमहाभाष्यम् ।" इत्येतन्मात्रोल्लेखदर्शनेनं तथाविधस्वगच्छगुरुपरम्पराद्युपलम्भाभावेन च न परिशाम्यति ।
____ अस्य ग्रन्थस्य प्रेषकोपिपरिशोधन–त्रिशतगाथापर्यन्तच्छायाविधानसंपूर्णग्रन्थ फावलोकनादिकार्य मुनिश्रीचतुरविजयादिना कृतम् । अवशिष्टाया दशोत्तरषट्शतगाथायाच्छायासम्पादनं समग्रग्रन्थस्योपरि उपयोगिटिप्पननिवेशनं च वेतनप्रदानेन पण्डितश्रीबेचरदासपात्कारितम् ।
अस्य ग्रन्थस्य विषयविवेचनं तु गाथोपरि यथास्थान सम्यक्प्रकारेण पण्डितश्रीबेचरदासेन निवेशितं तन्न पृथगकारि ।।
___ अस्य संशोधनसमये गवेषणपरेणापि द्वे एव पुस्तके समुपलब्धे । तत्र प्रथमं श्रीअणहिल्लपुरपत्तनश्रीसङ्घचित्कोशीयं प्राचीन नात्यशुद्धम् । द्वितीय पुनः प्रवर्तकश्रीमत्कान्तिविजयकृतसङ्ग्रहपुस्तककोशीयं चिरत्नं शुद्धम् । इत्येते द्वे पुस्तके समवलम्व्य संशोधितेऽप्यत्र निबन्धे यत्र वचनाशुद्धिरवशिष्टा भवेत्तत्र सशोध्य वाचनीयं धीधनैरिति प्रार्थयते--
भावनगरस्था श्रीजैन-आत्मानन्द-संसत् ।
[प्रथम प्राशननी प्रस्तावना]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org