________________
स्वामिकार्तिकेयानुप्रेक्षा
[गा०४५७विनयः । १। ज्ञाने जिनोक्तसिद्धान्ते द्वादशाङ्गचतुर्दशपूर्वाणां कालशुद्ध्या पठनं व्याख्यानं परिवर्तनम् । हस्तपादौ प्रक्षाल्य पर्यायावस्थितस्याध्ययनम् । अवग्रहविशेषेण पठनम्। बहुमानं यत्पठति यस्मात् शृणोति तयोः पूजा गुणस्तवनम्। अनिह्नवः यत्पठति यस्मात्पाठयति तयोः कीर्तनम् । व्यञ्जनशुद्धम् अर्थशुद्ध व्यञ्जनार्थशुद्धम् इति। ज्ञाने अष्टप्रकारो विनयः । यः शिक्षते विद्योपादानं करोति, ज्ञानाभ्यासं करोति, ज्ञान परस्मै उपदिशति । य एवं करोति स ज्ञानविनीतो भवति इति ज्ञाने विनयः।२। तथा तेनैव प्रकारेण चारित्रे व्रतसमितिगुप्तिलक्षणे त्रयोदशप्रकारे सामायिकादिपञ्चप्रकारे वा तदाचरणं तल्लक्षणोपायेन यत्नः । चारित्रे विनयः । तथा इन्द्रियकषायाणां प्रसरनिवारणम् इन्द्रियकषायव्यापारनिरोधनम् इति चारित्रविनयः । ३ । च पुनः द्वादशभेदे तपसि अनशनावमौदादिद्वादशप्रकारे तपसि अनुष्ठानम् उत्साहः उद्योगः । तथा आतापनाद्युत्तरगुणेषु उद्यमः उत्साहः। समतास्तववन्दनाप्रतिक्रमणप्रत्याख्यानकायोत्सर्गाणाम् आवश्यकानामपरिहाणिः । तथा यस्यावश्यकस्य यावन्तः पठिताः कायोत्सर्गाः तावन्त एव कर्तव्याः न तेषां हानिवृद्धिर्वा कार्या । द्वादशविधतपोऽनुष्टाने भक्तिरनुरागः तपखिना भक्तिः इति तपसि विनयः । ४ । उपचारो विनयः, उपचर्यते उपचारेण क्रियते साक्षादिति उपचारो विनयः । बहुधा बहुप्रकारः । कायिकविनयः साधूनां दूरदर्शनात् आसनाद् उत्थानम् , सिद्धश्रुतगुरुभक्तिपूर्वकं कायोत्सर्गादिकरणम् , नमनं शिरसा प्रगामः, अञ्जलिपुटेन नमनम् , सन्मुखगमनम् , पृष्टिगमनम् , देवगुरुभ्यः पुरतः नीचं स्थानम् , वामपार्श्व स्थानम् , गुरोवामपार्श्वे पृष्ठतो वा गमनम् , इत्यादिकौपचारिककायविनयः । वाचिकविनयः । तद्यथा । पूज्यवचनं बहुवचनोच्चारणं यूयं भट्टारकाः पूज्याः इत्येवमादिकम् । हितस्य पथ्यस्य भाषणम् इहलोकपरलोकधर्मकारणं वचनम् । मितस्य परिमितस्य भाषणं वाल्पाक्षरबह्वर्थम् । मधुरं मनोहरवचनं श्रुतिसुखदम् । सूत्रानुवीचिवचनम् आगमदृष्ट्या भाषणं यथा पापं न भवति । निष्ठुरकर्कशकटुकादिकं वर्जयित्वा भाषणम् । क्रोधमानमायालोभरागद्वेषादिविरहितं वचनम् । वकारमकारादिरहितं वचनम् । बन्धनत्रासनताडनादिरहितं वचनम् । असिमसिकृष्यादिक्रियारहितं वचनम् । परसुखविधायक वचनं धर्मोपदेशनम् । इत्यादिवाचिकविनयः यथायोग्यं कर्तव्यो भवति । मानसिकविनयः। यथा। हिंसादिपापकारिपरिणामस्य परित्यागः । आर्तरौद्रपरिणामस्य परित्यागः । सम्यक्त्वविराधनापरिणामरहितः । मिथ्यात्वपरिणामपरित्यागः । धर्मे सम्यक्त्वे ज्ञाने चारित्रे तद्वत्सु च शुभपरिणामः कर्तव्यः । कायादिको विनयः प्रत्यक्षः, दीक्षागुरौ श्रुतगुरौ तपोऽधिके साधुषु सूरिपाठकेषु आर्यिकासु गृहस्थश्रावकलोकेषु च यद्विद्यमानेषु यथायोग्य विनयः कर्तव्यः । एतेषु परोक्षभूतेषु गुर्वादिषु कायादिको विनयः कर्तव्यः । गुरूणामाज्ञादेशतदुपदेशवचनप्रतिपालनतदुपदिष्टेषु जीवादिपदार्थेषु श्रद्धानं कर्तव्यं परोक्षविनयः । विनयस्य फलम् , विनये सति ज्ञानलाभो भवति, आचारविशुद्धिश्च संजायते । विनयहीनस्य शिक्षा श्रुताध्ययनं सर्व निष्फलम् । विनयवान् सर्वकल्याणानि वर्गमोक्षसुखानि लभते । जन्मादिकपञ्चकल्याणकं चतुर्विधाराधनादिकं च लभते । तदुक्तं च । 'विणओ मोक्खद्दारं विणयादो संजमो तवो णाणं । विगएणाराहिजदि आयरिओ सव्वसंघो य ॥' विनयो मोक्षस्य द्वार प्रवेशकः, विनयात् संयमः, विनयात् तपः, विनयात् ज्ञानं, विनयेन आराध्यते आचार्यः सर्वसंघ श्चापि । तथा च । 'कित्ती मेत्ती माणस्स भंजणं गुरुजणे य बहुमागं । तित्थयराणं आणा गुणाणुमोदो य विणयगुणा ॥. विनयस्य कर्ता कीर्ति यशः सर्वव्यापि प्रतापं लभते, तथा मैत्री सवैः सह मित्रभावं लभते, तथात्मनो मानं गर्व निरस्यति, गुरुजनेभ्यो बहुमानं लभते, तीर्थकराणामाज्ञां पालयति, गुणानुरागं च करोति । इत्यादिविनयतपोविधानगुणाः ॥ ४५६ ॥
दसण-णाण-चरित्ते सुविसुद्धो जो हवेइ परिणामो।
बारस-भेदे वि तवें सो च्चिय' विणओ हवे तेसिं ॥४५७॥ भावार्थ-कषाय और इन्द्रियोंको अपने वशमें करना विनय है । अथवा रत्नत्रय और रत्नत्रयके धारी मुनियोंके विषयमें विनम्र रहना विनय है। उसके पाँच भेद हैं ॥ ४५६ ॥ अर्थ-दर्शन, ज्ञान
और चारित्रके विषयमें तथा बारह प्रकारके तपके विषयमें जो विशुद्ध परिणाम होता है वही उनकी विनय है ॥ भावार्थ-तत्त्वार्थके श्रद्धानरूप सम्यग्दर्शनके विषयमें शंका, कांक्षा, विचिकित्सा आदि दोषोंको छोड़ना और उपगूहन, स्थितिकरण, वात्सल्य, प्रभावना, आदि गुणोंका होना
१. भेउ, म भेए। २ब तवो (१)। ३ बचिय ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org