________________
-४४३] १२. धर्मानुप्रेक्षा
३३१ निर्जरा मैव जायते । शानावरणाद्यष्टकर्मणां निर्जरा गलनं न भवतीत्यर्थः। तस्य कस्य । यः जन्तुः पुमान् उपवासम् उपवस्त्वं क्षपणां कुर्वाणः सन् विदधाति करोति । कम् । आरम्भम् असिमषिकृषिवाणिज्यव्यापारखण्डनीपेषणीचुहीजलकुम्भगालनप्रमार्जनवस्त्रक्षालनगृहलिम्पनादिप्रारम्भं कुर्वन् उपवासादिकः कायक्लेशः । कुतः । मोहात् मोहनीयकर्मोदयात् ममत्वात् अज्ञानत्वात् । उक्तं च । "कषायविषयाहारत्यागो यत्र विधीयते । उपवासः स विज्ञेयः शेषं लङ्कनकं विदुः॥" "मोहात् द्रविणं भवनं मे मे युवतिः सुताश्च मे मे मे । इति मे मे मे कुर्वन् पशुरिव बद्धोऽस्ति संसारे ॥” इति ॥४४२ ॥ अथावमोदर्यतपोविधानं गाथाद्वयेन प्ररूपयति
आहार-गिद्धि-रहिओ चरिया-मग्गेण पासुगं' जोग्गं ।
अप्पयरं जो भुंजइ अवमोदरियं तवं तस्स ॥४४३॥ [छाया-आहारगृद्धिरहितः चर्यामार्गेण प्रासुकं योग्यम् । अल्पतरं यः भुङ्क्ते अवमोदर्य तपः तस्य ॥] तस्य मुनेः भिक्षोः अवमोदर्यम् अवमोदर्याख्यं द्वितीयतपोविधानं भवेत् । तस्य कस्य । यो भिक्षुः अल्पतरमाहारं स्तोकतर तुच्छम्
आत्मीयप्रकृत्यौदनस्याहारस्य चतुर्भागेनार्धन प्रासेन वा ऊनाहारं भोजमं भुते अत्यश्नाति। कीदृक्षमाहारं भुझे। प्रासुकं मनोवचनकायेन कृतकारितानुमोदितादिदोषरहितम् उद्गमोत्पादैषणेङ्गालदोषरहितं वा । पुनः कीदृक्षम् आहारम् । योग्यं यतीनां प्रहणोचितम् । “णहरोमजंतुअट्ठीकणकुंडयरुहिरमंसचम्माणि । कंदफलमूलबीया छिण्ण मला चउदसा होति ॥” इति चतुर्दशमलरहितं भोजनं योग्यमुचितम् । केन कृत्वाहारं भुङ्क्ते। चर्यामार्गेण यत्युक्ताहारप्रवृत्त्या यत्याचारोक्तस्थितिभोजनकभक्तचतुरङ्गुलपादानान्तरालमौनस्थद्वात्रिंशदन्तरायरहितादिप्रवर्तनेन आहार भुंक्ते। कथंभूतो भिक्षुः । आहार गृद्धिरहितः आहारस्य भोजनस्य गृद्धपक्षिवत् गृद्धिः अत्यासत्या मृष्टरसाद्याकांक्षा तया रहितः । तद्यथा भगवत्याराधनायाम् । “बत्तीसं किर कवला आहारो कुक्खिपूरणो होइ । पुरिसस्स महिलिआए अट्ठावीस हवे कवला ॥" पुरुषस्य कुक्षिपूरणो भवत्याहारः द्वात्रिंशत्कवलमात्रः, सहस्रतण्डुलैः कृत्वा एककवलमात्रः, तादृशद्वात्रिंशत्कवलमात्रं ३२ नरस्य खाभाविकाहारो भवतीत्यर्थः । महिलायाः स्त्रियाः कुक्षिपूरणो भवत्याहारः अष्टाविंशतिकवलमात्रः । ततः तस्मादाहारात् "एकुत्तरसेढीए जाव य कवलो वि होदि परिहीणो । अवमोदरियतवो सो अद्धकवलमेगसित्थं च ।" एक कवलोत्तरश्रेण्या परिहीनः द्वात्रिंशत्कवलेभ्यः ३२ एकैककवलेनोनं ३१ द्वाभ्या ३० त्रिभिः २९ चतुर्भिः २८ पञ्चभिः २७ इत्येवं यावत् एककवलः शेषः २६ । २५ । २४ । २३ । २२ । २१ । २० । १९ । १८ । १७ । १६ । १५ । १४ । १३ । १२ । ११।१०।९।८ । ७।६।५। ४ । ३ । २।१॥ ततः अर्धकवलं तस्य अर्धकवलं
आरम्भको करता है, उसके लिये यह एक और कष्ट तो हुआ किन्तु कर्मोंकी निर्जरा नहीं हुई ॥ भावार्थ-जो मनुष्य अथवा स्त्री मोह अथवा अज्ञानके वशीभूत होकर उपवासके दिन असि, मषि, कृषि, सेवा, व्यापार, आदि उद्योगोंको तथा पीसना, कूटना, पानी भरना, चूल्हा जलाना, झाडू देना, कपड़े धोना, घर लीपना आदि आरंभको करता है वह उपवास करके भूख प्यासकी बाधासे केवल अपने कष्टको ही बढ़ाता है । कहा भी है-जिसमें विषय कषाय रूपी आहारका त्याग किया जाता है वही उपवास है, केवल भोजनका त्याग करना तो लंघन है ॥ ४४२ ॥ आगे दो गाथाओंसे अवमोदर्य तपको कहते हैं । अर्थ-जो आहारकी तृष्णासे रहित होकर शास्त्रोक्त चर्याके मार्गसे थोड़ासा योग्य प्रासुक आहार ग्रहण करता है उसके अवमोदर्य तप होता है ॥ भावार्थ-जो साधु आहारमें अति आसक्ति नहीं रखता और ईर्यासमिति पूर्वक श्रावकके घर जाकर, उसके पड़गाहने पर दिनमें एक बार खड़े होकर तथा भोजनके बत्तीस अन्तराय टालकर चौदह प्रकारके मलसे रहित भोजन एक चौथाई अथवा आधा ग्रास कम खाता है उसके अवमोदर्य तप होता है । भगवती आराधनामें कहा है-मनुष्यका
१ग चरिआ। २ब पासुकं योग्गं । ३ ल ग जोग्गं । अवमोदरियं तवं होदि तस्स मिक्सु ॥ ४ म अवमोयरियं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org