________________
स्वामिकार्तिकेयानुप्रेक्षा
[गा० ४२१मेदरत्नत्रयाधारस्य चातुर्वर्ण्यसंघस्य मध्ये यदा कोऽपि दर्शनचारित्रमोहोदयेन दर्शनं ज्ञानं चारित्रं वा परित्यक्तुं वाञ्छति तदागमाविरोधेन यथाशक्त्या धर्मश्रवणेन वाऽर्थेन वा सामर्थ्येन वा केनाप्युपायेन यद्धर्मे स्थिरत्वं क्रियते तद्व्यवहारेण स्थिरीकरणमिति । निश्चयेन पुनस्तेनैव व्यवहारस्थिरीकरणगुणेन धर्मदृढत्वे जाते सति दर्शनचारित्रमोहोदयजनितसमस्तमिथ्यात्वरागादिविकल्पजालल्यागेन निजपरमात्मखभावनोत्पन्न परमानन्दैकलक्षणसुखामृतरसास्वादेन तल्लयतन्मयपरमसमरसीभावेन चित्तस्थिरीकरणमिति ॥ ४२० ॥ अथ वात्सल्यगुणमुल्लिखति
जो धम्मिएसु भत्तो अणुचरणं कुणदि परम-सद्धाए ।
पिय-वयणं जंपंतो वच्छल्लं तस्स भव्वस्स ॥ ४२१॥ [छाया-यः धार्मिकेषु भक्तः अनुचरणं करोति परमश्रद्धया । प्रियवचनं जल्पन् वात्सल्यं तस्य भव्यस्य ॥] तस्य भव्यस्य प्राणिनः वात्सल्यं वात्सल्याख्यगुणो भवेत् । स कः। यो भव्यः धार्मिकेषु सम्यग्दृष्टिषु श्रावकेषु ऋषिमुनियत्यनगारेषु च भक्तः भक्तियुक्तः धर्मानुरागः । पुनः करोति यो भव्यः विदधाति । किम् । अनुचरणं साधर्मिकेषु भोजनसार्धगमनोद्भीभवनादिपरिचर्या करोति । कया। परमश्रद्धया उत्कृष्टभावेन उत्कर्षेण रुचिरूपेण । किंभूतः सन् । साधर्मिकजनेषु प्रियवचनं मृष्टवचनम् अहं तव किं करोमि इत्यादिकलक्षणं जल्पन् कथयन् । तथाहि बाह्याभ्यन्तररत्नत्रयाधारे चतुविधसंधे वत्से धेनुवत् पञ्चेन्द्रियविषयनिमित्तं पुत्रकलत्रसुवर्णादिस्नेहवत् वा यदकृत्रिमस्नेहकारणं तब्यवहारेण वात्सल्यं भण्यते। निश्चयवात्सल्यं पुनस्तस्यैव व्यवहारवात्सल्यगुणस्य सहकारित्वेन धर्मे दृढत्वे जाते सति मिथ्यात्वरागादिसमस्तशुभाशुभबहिभावेषु प्रीतिं त्यक्त्वा रागादिविकल्पोपाधिरहितपरमस्वास्थ्यसंवित्तिसंजातसदानन्देकलक्षणसुखामृतरसास्वादे प्रीतिकरण निश्चयवात्सल्यमिति ॥ ४२१॥ अथ
जो दस-भेयं धम्म भव्व-जणाणं पयासदे विमलं ।
अप्पाणं पि पयासदि णाणेण पहावणा तस्स ॥ ४२२॥ [छाया-यः दशमेदं धर्म भव्यजनाना प्रकाशयति विमलम् । आत्मानम् अपि प्रकाशयति ज्ञानेन प्रभावना तस्य ॥] तस्य भव्यवरपुण्डरीकस्य प्रभावना प्रभावनाख्यगुणो भवति । तस्य कस्य । यः भव्यः भव्यजनानां मेदामेदरत्नत्रयेण भवितुं खात्मोपलब्धि प्राप्तुं योग्या भव्यास्ते च ते जनाः भव्यजनास्तेषां भव्यजनानां भव्यलोकानां भेदामेदरत्नत्रये ज्ञापकानामप्रेदशमेदं धर्मम् उत्तमक्षमादिदशप्रकारं धर्म प्रकाशयति प्रकटयति कथयति उपदेशयति । अपि पुनः ज्ञानेन मेदज्ञानेन कृत्वा निर्मलम् आत्मानं प्रकाशयति कर्ममलकलङ्करहितं शुद्धस्वरूपं परमात्मानं स्वखरूपं स्वयं स्वात्मानं प्रकटीकरोति । तथा भव्यलोकानामग्रे आत्मनः स्वरूपं प्रकाशयति इत्यर्थः॥४२२ ॥ या धनकी सहायता देकर या शक्तिका प्रयोग करके अथवा किसी भी अन्य उपायसे जो उसे धर्ममें स्थिर किया जाता है उसे व्यवहारसे स्थितिकरण गुण कहते हैं । और मिथ्यात्व, राग वगैरह समस्त विकल्प जालको त्यागकर अपने आत्म खभावमें स्थिर होना निश्चयसे स्थितिकरण गुण है ॥ ४२०॥ अब वात्सल्य गुणको कहते हैं । अर्थ-जो सम्यग्दृष्टि जीव प्रियवचन बोलता हुआ अत्यन्त श्रद्धासे धार्मिकजनोंमें भक्ति रखता है तथा उनके अनुसार आचरण करता है उस भव्य जीवके वात्सल्य गुण कहा है। भावार्थ-जैसे गाय अपने बच्चेसे स्वाभाविक प्रेम करती है वैसे ही रत्नत्रयके धारी चतुविध संघसे खाभाविक स्नेहका होना व्यवहारसे वात्सल्य गुण है । और व्यवहार वात्सल्य गुणके द्वारा धर्ममें दृढ़ता होनेपर मिथ्यात्व राग वगैरह समस्त अशुभ भावोंसे प्रीति छोड़कर परमानन्द स्वरूप अपने आत्मासे प्रीति करना निश्चयसे वात्सल्य गुण है ॥ ४२१ ॥ आगे दो गाथाओंसे प्रभावना गुणको कहते हैं । अर्थ-जो सम्यग्दृष्टि अपने ज्ञानके द्वारा भव्यजीवोंके लिये दश प्रकारके धर्मको
१ब दसविंह च धम्म ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org