________________
२१६ स्वामिकार्तिकेयानुप्रेक्षा
[गा०३०८[छाया-चतुर्गतिभव्यः संज्ञी सुविशुद्धः जाग्रत्पर्याप्तः । संसारतटे निकटः ज्ञानी प्राप्नोति सम्यक्त्वम् ॥] प्राप्नोति लभते । किं तत् । सम्यक्त्वं सम्यग्दर्शनम् । कोऽसौ । ज्ञानी भेदज्ञानविशिष्टः । कीदृग्योग्यताविशिष्टः सन् सम्यक्त्वं लभते । चतुर्गतिभव्यः नरकतिर्यग्मनुष्यदेवंगतिषु भव्यः जीवः चातुर्गतिको भव्यजीवो न त्वभव्यः । पुनः कीदृक्षः । संज्ञी पञ्चेन्द्रियः न त्वसंज्ञी। पुनरपि कीदृशः । विशुद्ध आकारेण मेदग्रहणेन सहितो वा, अनन्तगुणविशुद्ध्या वर्धमानः, विशुद्धिपञ्चलब्धिपरिणतः, भावपीतपद्मशुझैकतरलेश्यो वा। जग्गमाण जाग्रत् निद्रानिद्राप्रचलाप्रचलास्त्यानगृद्धिनिद्रात्रयरहितः । पर्याप्तः षट्पर्याप्तिसंपूर्णतां प्राप्तः । पुनः कीदृक्षः । संसारतटे निकटः सम्यक्त्वोत्पत्तितः उत्कृष्न अर्धपुद्गलपरिवर्तनकालपर्यन्तं संसारस्थायीत्यर्थः ॥ ३०७ ॥ अथोपशमसम्यक्त्वक्षायिकसम्यक्त्वलक्षणं लक्षयति
सत्तण्हं पयडीणं उवसमदो होदि उवसमं सम्मं ।
खयदोय होदि खइयं केवलि-मूले मणूसस्स ॥ ३०८ ॥ [छाया-सप्तानां प्रकृतीनाम् उपशमतः भवति उपशमं सम्यक्त्वम् । क्षयतः च भवति क्षायिक केवलिमूले मनुष्यस्य॥] सप्तानां प्रकृतीनां मिथ्यात्वमिश्रसम्यक्त्वानन्तानुबन्धिक्रोधमानमायालोभानाम् उपशमात् कतकफलयोगात् जलकर्दमोपशमवत् उपशमं सम्यक्त्वं भवति । च पुनः, तासां सप्तप्रकृतीनां क्षयात् निरवशेषनाशात् क्षायिक सम्यक्त्वं भवति । व तत्क्षायिक जायते । केवलज्ञानिनः पादमूले चरणाग्रे । कस्य । मनुष्यस्य कर्मभूमिजपर्याप्तभव्यनरस्य । तथाहि । अतत्त्वश्रद्धानकारणं मिथ्यात्वम् । १ । तत्त्वातत्त्वश्रद्धानकारणं सम्यग्मिथ्यात्वं मिश्रम् । २। तत्त्वार्थश्रद्धानरूपं सम्यग्दर्शनम् । ३ । चलमलिनमगाढं करोति यत्सा सम्यक्त्वप्रकृतिः, चलम् आप्तागमपदार्थश्रद्धानविकल्पेषु नानारूपेण चलतीति चलम् । यथा खकारितेऽर्हच्चैत्यादौ देवोऽयं मेऽन्यकारिते अन्यस्यायमिति तथा सम्यक्त्वप्रकृतेरुदयात् चलम् । 'मलिनं मलसंगेन शुद्ध वर्णमिवोद्भवेत् । 'स्थान एव स्थितं कंप्रमगाढमिति कीर्त्यते । वृद्धयष्टियरिवाल्यक्तस्थाना करतले स्थिता ॥ यथा सर्वेषाम् अर्हत्परमेष्ठिनाम् अनन्तशक्तित्वे समाने स्थिते अस्मै शान्तिकर्मणे शान्तिनाथः, अस्मै विघ्नविनाशानार्थ पार्श्वनाथः इत्यास्थागाढम् । तथा यदुदयात् सर्वज्ञवीतरागप्रणीतसम्यग्दर्शनज्ञानचारित्रलक्षणोपलक्षितमोक्षसन्मार्गपराधुखः सन् आत्मा तत्त्वार्थश्रद्धाननिरुत्सुकः तत्त्वार्थश्रद्धानपराङ्मुखः अशुद्धतत्त्वपरिणामः सन् दर्शनमोहनीयमिथ्यात्वोदयात् हिताहितविवेकविकलः जडादिरूपतयाऽवतिष्ठते तन्मिथ्यात्वं नाम । १ । मिथ्यात्वमेव सामिशुद्धखरसमें ईषन्निराकृतफलदानसामर्थ्य सम्यमिथ्यात्वम् उभयात्मकं मिश्रम् । २। प्रशमसंवेगादिशुभपरिणामनिराकृतफलदानसामथ्यं मिथ्यात्वमेवोदासीनत्वेन स्थितम् आत्मनः श्रद्धानं नैव निरुणद्धि । मिथ्यात्वं च वेदयमानमात्मस्वरूपं लोकमध्ये आत्मानं सम्यग्दृष्टिं ख्यापयन् सम्यक्त्वाभिधेयमिथ्यात्वम् । ३ । अनन्तभवभ्रमणहेतुत्वात् अनन्तं मिथ्यात्वं अनुबध्नन्ति संबन्धयन्ति इत्येवंशीलाः ये क्रोधमानमायालोभास्ते अनन्तानुबन्धिनः सम्यक्त्वघातकाः । अनन्तानुबन्धिनः क्रोधमानमायालोभाः। यथाक्रम शिलाभेदशिलास्तम्भवणुमूलकृमिरागकंबलसदृशास्तीव्रतमशक्तयः नारकगत्युत्पादनहेतवो भवन्ति । अनन्तानुबन्धिक्रोधमानपर्याप्त, ज्ञानी जीव संसारतटके निकट आनेपर सम्यक्त्वको प्राप्त करता है । भावार्थ-नरकगति, तिर्यञ्चगति, मनुष्यगति और देवगति चारों गतियोंके जीवोंको सम्यक्त्वकी प्राप्ति हो सकती है, किन्तु प्रथम तो वह जीव भव्य होना चाहिये; क्यों कि अभव्यके सम्यक्त्व नहीं होता । दूसरे, वह संज्ञी पञ्चेन्द्रिय होना चाहिये, क्यों कि असंज्ञी जीवके सम्यक्त्व नहीं होता । तीसरे, प्रति समय अनन्तगुणी विशुद्धिवाला होना चाहिये और पीत, पद्म तथा शुक्ल लेश्याओंमें से कोई एक लेश्या होनी चाहिये । चौथे जागता हुआ हो, अर्थात् निद्रानिद्रा, प्रचलाप्रचला और स्त्यानगृद्धि इन तीन निदाओंसे रहित हो । पाँचबे, उसकी छहों पर्याप्तियों पूर्ण हो चुकी हो, क्यों कि अपर्याप्त अवस्थामें सम्यक्त्व नहीं होता । छठे, ज्ञानी हो अर्थात् साकार उपयोगसे युक्त हो क्योंकि निराकार दर्शनोपयोगमें सम्यक्त्व उत्पन्न नहीं होता । सातवें, उसके संसार भ्रमणका अधिकसे अधिक अर्धपुद्गल परावर्तनकाल
१व सत्तण्ण । २ ग खयदोइ होइ खईयं (बक्खइयं)। ३ लग मणुसस्स, म समणुस्सस्स । ४ प-टिप्पणी अर्थशुद्धात्मरसम् ।'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org