________________
१६८
स्वामिकार्त्तिकेयानुप्रेक्षा
[ गा० २३७
गुणाः । गुण्यते पृथक्क्रियते द्रव्यं द्रव्यात् यैस्ते गुणाः । जीवस्य चैतन्यज्ञानादिगुणः, पुद्गलस्य रूपरसगन्धस्पर्शादिगुणः, धर्मस्य गतिलक्षणो गुणः, अधर्मस्य स्थितिलक्षणो गुणः, आकाशस्य अवकाशदानगुणः, कालस्य नवजीर्णतादिगुणः । स्वस्वगुणभेदेन पृथक्त्वेन षड्द्रव्याणि पृथग्भूतानि भवन्तीत्यर्थः ॥ २३६ ॥ अथ द्रव्यस्य गुणपर्यायस्वभावत्वं दर्शयतिजो अथ पडिसमयं उप्पाद-बय- धुवत्त सब्भावो ।
गुण-पज्जय-परिणामो' सो संतो' भण्णदे समए ॥ २३७ ॥
[छाया-यः अर्थः प्रतिसमयम् उत्पादव्ययध्रुवत्वस्वभावः । गुणपर्यायपरिणामः स सत् भण्यते समये ॥] यः अर्थः जीवपुलादिपदार्थः वस्तु द्रव्यं, प्रतिसमयं समयं समयं प्रति, उत्पादव्ययधौव्यैः सद्भावः अस्तित्वं स अर्थः पदार्थः वस्तु द्रव्यं समये सिद्धान्ते गुणपर्याय परिणामः गुणपर्यायात्मकः सन्तो सत् सद्रूपः भण्यते कथ्यते । सद्रव्यलक्षणं सीदति स्वकीयान् गुणपर्यायान् व्याप्नोति इति सत् । 'उत्पादव्ययध्रौव्ययुक्तं सत्' । तथा सूत्रोक्तं च । चेतनद्रव्यस्य अचेतनद्रव्यस्य वा निजां जातिम् अमुञ्चतः कारणवशात् भवान्तरप्राप्तिः उत्पादनम् उत्पादः । यथा मृत्पिण्डविघटने घटपर्याय उत्पद्यते । पूर्वभावस्य व्ययनं विगमनं विनशनं व्ययः उच्यते । यथा घटपर्यायोत्पत्तौ सत्यां मृत्पिण्डाकारस्य व्ययो भवति । अनादिपारिणामिक स्वभावेन निश्चयनयेन वस्तु न व्येति न चोदेति किंतु ध्रुवति स्थिरीसंपद्यते यः स ध्रुवः, तस्य भावः कर्म वा धौव्यमुच्यते । यथा मृत्पिण्डस्य व्ययेऽपि घटपर्यायोत्पत्तावपि मृत्तिका मृत्तिकान्वयं न मुञ्चति, एवं पर्यायस्योत्पादे व्यये च जातेऽपि सति वस्तु ध्रुवत्वं न मुम्बति । उत्पादव्ययध्रौव्ययुक्तं गुणपर्यायात्मकं गुणाः ज्ञानादयः पर्यायाः पूर्वभाव मुक्त्वा उत्तरं भावं प्राप्ताः तत्स्वरूपं द्रव्यं कथ्यते । तथा च शुद्धजीवः स्वयमेव द्रव्यं द्रव्यभावकर्मनो कर्मरहितः केवलज्ञानदर्शन शुद्धगुणः लोक प्रमाणोऽखण्डप्रदेश शुद्ध पर्यायः, उत्पादः अगुरुलघुगुणस्य षड्गुणवृद्ध्या, व्ययः तस्य षड्गुणहान्या च ध्रुवः स्वभावेन शाश्वतः, अशुद्धजीवः संसारी कर्मादियुक्तः स्वयमेव द्रव्यं मतिज्ञानादिगुणः कुमत्यादिअशुद्धगुणः नरनारका दिपर्यायः पूर्वशरीरं मुक्त्वा उत्तरशरीरं गृह्णाति उत्पादः, त्यक्तमनुष्यादिशरीरः व्ययः, द्रव्यत्वे धौव्यं च । सिद्ध: निष्कलो द्रव्यं, सम्यक्त्वाद्यष्टगुणः किंचिदून चरमशरीर प्रमाणपर्यायः, उत्पादः अगुरुलघुगुणस्य षङ्गुणवृद्ध्या, व्ययः तस्य षड्गुणान्या, धौव्यं द्रव्यस्वभावेन शाश्वतः । शुद्धपुद्गलद्रव्यम् अविभागी परमाणुः, स्पर्शरसगन्धवर्णलक्षणो गुणः,
द्रव्यमें और गुण पर्यायमें कथंचित् भेद और कथंचित् अभेद होता है । इस लिये द्रव्यसे अभिन्न होनेके कारण गुण पर्यायभी एकरूप होते हैं । और गुण पर्यायोंसे अभिन्न होने के करण द्रव्य अनेक होता है || २३६ ॥ आगे द्रव्यको गुणपर्याय स्वभाववाला बतलाते हैं । अर्थ- जो वस्तु प्रतिसमय उत्पाद, व्यय और ध्रौव्य स्वभावी है उसे ही आगममें गुणपर्याय वाली और सत् कहा है ॥ भावार्थतत्वार्थ सूत्र द्रव्यका लक्षण सत् कहा है । जो सत् है वही द्रव्य है । तथा सत् का लक्षण उत्पाद व्यय और धौव्य बतलाया है यानी जो प्रतिसमय उत्पाद, व्यय और ध्रौव्यसे युक्त होता है वही सत् है । अपनी जातिको न छोड़ते हुए चेतन अथवा अचेतन द्रव्यमें कारणोंकी वज़ह से जो नई पर्याय उत्पन्न होती है उसे उत्पाद कहते हैं । जैसे मिट्टीका पिण्ड अपनी जाति मिट्टीपनेको न छोड़ते हुए दण्ड, चक्र और कुम्हारका संयोग मिलनेपर पिण्ड पर्यायको छोड़कर घट पर्यायको अपनाता है। पूर्व पर्यायके नष्ट होनेको व्यय कहते हैं । जैसे मृत्पिण्डमें घट पर्यायके उत्पन्न होनेपर पिण्ड पर्याय नष्ट हो जाती है । और मूल तत्त्वके स्थिर रहनेको ध्रुव कहते हैं और ध्रुवके भावका नाम ध्रौव्य है । जैसे मिट्टीपना पिण्ड अवस्थाकी तरह घट अवस्थामें भी कायम रहता है । ये उत्पाद, व्यय और धौव्य प्रत्येक द्रव्यमें प्रति समय होते हैं । तथा द्रव्यका दूसरा लक्षण गुण पर्याय वाला है । जो गुण और पर्याय वाला होता है वही द्रव्य है । ये
१ ल ग परिणामो संतो भण्णते । २ म सत्तो ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org