________________
-२२०]
१०. लोकानुप्रेक्षा [छाया-जीवानां पुद्गलानां ये सूक्ष्माः बादराः च पर्यायाः। अतीतानागतभूताः स व्यवहारः भवेत् कालः॥] स व्यवहारकालो भवेत् । व्यवहतु योग्यो व्यवहारः विकल्पः मेदः पर्याय इत्येकार्थः । व्यवहारकालस्वरूपं गोम्मटसारे उक्तमस्ति तदुच्यते । 'आवलिअसंखसमया संखेज्जावलि समूहमुस्सासो। सत्तुस्सासो थोवो सत्तत्थोवो लवो भणिओ॥' जघन्ययुक्तासंख्यातसमयराशिः आवलिः स्यात् । स समयः किंरूपः। 'अवरा पज्जायठिदी खणमेत्तं होदि तं च समओ त्ति।दोण्हमणूणमदिक्कमकालपमाण हवे सोदु॥ द्रव्याणां जघन्या पर्यायस्थितिः क्षणमात्रं भवति, सा च समय इत्युच्यते। स च समयः द्वयोर्गमनपरिणतपरमाण्वोः परस्परातिक्रमकालप्रमाणं स्यात् । तथा च 'णभएयपएसत्यो परमाणू मंदगइपवतो। बीयमणंतरखेत्तं जावदियं जादि तं समयकालो ॥' आकाशस्यैकप्रदेशस्थितपरमाणुः मन्दगतिपरिणतः सन् द्वितीयमनन्तरक्षेत्रं यावद्याति स समयाख्यः कालो भवति। स च प्रदेशः कियान् । 'जेत्तीवि खेत्तमित्तं अणुणा रुद्धं खु गयणदव्वं च । तं च पदेसं भणियं अवरावरकारणं जस्स ॥ इति समयलक्षणं कथितम् । संख्यातावलिसमूह उच्वासः । स च किरूपः । 'अस्स अणलसस्स य णिरुवयस्स य हवेज जीवस्स । उस्सासाणिस्सासो एगो पाणो त्ति माहीदो ॥ सुखिनः अनलसस्य निरुपहतस्य जीवस्योच्छ्वासनिःश्वासः स एवैकः प्राणः उक्तो भवेत् । सप्तोच्यासाः स्तोकः। सप्तस्तोकाः लवः । 'अद्वत्तीसद्धलवा णाली वेणालिया मुहत्तं तु। एकसमएण हीणं भिण्णमुहुत्तं तदो सेसं ॥' सार्धाष्टात्रिंशलवा नाली घटिका द्वे नाल्यौ मुहूर्तः । स च एकसमयेन हीनो भिन्नमुहूर्तः, उत्कृष्टान्तर्मुहूर्त इत्यर्थः । ततोऽने द्विसमयोनाया भावल्यसंख्यातेकभागान्ताः सर्वेऽन्तर्मुहूर्ताः । अत्रोपयोगिगाथासूत्रम् । 'ससमयमावलि अवर समऊणमुहत्तयं तु उक्कस्स । मज्ज्ञासंखवियप्पं वियाण अंतोमुत्तमिणं ॥' ससमयाधिकावलिर्जघन्यान्तमुहूर्तः समयोनमुहूर्तः उत्कृष्टान्तर्मुहूर्तः मध्यमाः असंख्यातविकल्पाः मध्यमान्तर्मुहूर्ताः इति जानीहि ॥ दिवसो पक्खो मासो उडु अयण वस्समेवमादी ह । संखेंजासंखेजाणताओ होदि ववहारो॥' दिवसः पक्षो मासः ऋतुः अयनं वर्ष युगं पल्योपमसागरोपमकल्पादयः स्फुटम् भावल्यादिभेदतः संख्यातासंख्यातानन्तपर्यन्तं क्रमशः श्रुतावधिकेवलज्ञानविषयविकल्पाः सर्वे व्यवहारकालो भवति । स व्यवहारकालः कथ्यते। सकः । जीवपुद्गलानां ये जीवानां पुगलानां च सूक्ष्मा बादराश्च पर्यायाः, तत्र जीवानां सूक्ष्मपर्यायाः केवलज्ञानदर्शनादिरूपाः, बादरपर्यायाः मतिश्रुतावधिमनःपर्यायक्रोधमानमायालोमाज्ञानादिरूपाः नरनारकादिपर्याया वा। पुद्गलानां सूक्ष्माः पर्यायाः, अणुघणकत्र्यणकादयः सक्ष्मनिगोदादिशरीररूपाश्च. बादरपर्यायाः पृथ्व्यप्तेजोवायुवनस्पतिशरीरादयः घटपटमुकुटशकटगृहापासपर्वतमेरुविमानादिमहास्कन्धवर्गणापर्यन्ताः। पुनः कीदृशास्ते। अतीतानागतभूताः। अतीतकालभविष्यत्कालवर्तमानकालरूपाः ये केचन अतीतकाले पर्यायाः जाताः, भविष्यस्काले भविष्यन्तः पर्यायाः, वर्तमानकाले समस्तिरूपाः
कालका निरूपण करते हैं । अर्थ-जीव और पुद्गल द्रव्यकी जो सूक्ष्म और बादर पर्याय अतीत, अनागत और वर्तमानरूप हैं वही व्यवहार काल है ॥ भावार्थ-गोम्मटसार जीवकाण्डमें द्रव्योंका वर्णन करते हुए लिखा है कि एक द्रव्यकी जितनी अतीत, अनागत और वर्तमान अर्थ पर्याय तथा व्यंजन पर्याय होती हैं उतनी ही द्रव्यकी स्थिति होती है । आशय यह है कि प्रत्येक द्रव्यमें प्रतिसमय परिणमन होता है । वह परिणमन ही पर्याय है । एक पर्याय एक क्षण अथवा एक समय तक रहती है । एक समयके पश्चात् वह पर्याय अतीत हो जाती है और उसका स्थान दूसरी पर्याय ले लेती है। इस तरह पर्यायोंका क्रम अनादिकालसे लेकर अनन्तकाल तक चलता रहता है। अतः प्रत्येक द्रव्य अनादि अनन्त होता है । पर्याय दो प्रकारकी होती हैं । एक अर्थ पर्याय और एक व्यञ्जन पर्याय । गुणोंके विकारको पर्याय कहते हैं । सो प्रदेशवत्व गुणके विकारका नाम व्यंजन पर्याय है और अन्य गुणोंके विकारका नाम अर्थ पर्याय है । धर्मद्रव्य, अधर्मद्रव्य, आकाश, और कालमें केवल अर्थ पर्याय ही होती है और जीव तथा पुद्गलमें दोनों प्रकारकी पर्यायें होती हैं । तथा व्यञ्जन पर्याय स्थूल होती है और अर्थ पर्याय सूक्ष्म होती है । एक अर्थ पर्याय एक समयतक ही रहती है । आकाशके एक प्रदे
कार्तिके० २०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org