________________
३. संसारानुप्रेक्षा
१९
[ छाया - इत्येवमादिदुःखं यत् नरके सहते एकसमये । तत् सकलं वर्णयितुं न शक्नोति सहस्रजिह्नः अपि ॥ ] सहते क्षमते एकस्मिन् समये क्षणे । क्व । नरके रत्नप्रभादौ यत् इत्येवमादि दुःखं पूर्वोक्तं छेदनमेदनाद्यशर्म, तत् सकलदुःखं वर्णयितुं कथयितुं न समर्थो भवति । कः । सहस्रजिह्नः सहस्रं जिह्वा रसना यस्य स तथोक्तः । अपिशब्दात् न केवलम् एकजिह्वः ॥ ३७ ॥
१०]
-४०
सबं पि होदि णरए खेत्तं-सहावेण दुक्खदं असुहं ।
- कुविदा वि सब-कालं अण्णोणं होंति' णेरइयों ॥ ३८ ॥
[ छाया - सर्वमपि भवति नरके क्षेत्रखभावेन दुःखदमशुभम् । कुपिताः अपि सर्वकालमन्योन्यं भवन्ति नैरयिकाः ॥ ] नरके धर्मादिनरके क्षेत्रस्वभावेन सर्वमपि वस्तु दुःखदं दुःखानां दायकं भवति, अशुभम् अप्रशस्तम् । यत्र नारकाः सर्वकालमपि सर्वदापि अन्योन्यं परस्परं कुपिताः क्रोधाक्रान्ताः भवन्ति ॥ ३८॥
अण्ण-भवे जो सुयणो सो वि य णरऍ हणेइ अइ-कुविदो । एवं ति-विवाi बहु कालं विसहदे दुक्खं ॥ ३९ ॥
[ छाया-अन्यभवे यः सुजनः स अपि च नरके हन्यते अतिकुपितः । एवं तीत्रविपाकं बहुकालं विषहते दुःखम् ॥] यो जीवः अन्यभवे मनुष्यभवे तिर्यग्भवे वा स्वजैनः स्वकीयजनः आत्मीयः अपि च स खजनः नरके रत्नप्रभादौ उत्पन्नः सन् अतिकुपितः क्षेत्रस्वभावात् अतिक्रुद्धः सन् हन्ति पूर्वभवसंबन्धिनस्तत्र जातान् हिनस्ति । एवं पूर्वोक्तप्रकारेण दुःखम् असातं बहुकालं पल्योपमा दिसागरोपमादिकालं सहते क्षमते । कथंभूतं दुःखम् । तीव्र विपाकम् अनेकप्रकारेण पञ्चकोट्यष्टषष्टिलक्षन वतिनवसहस्रपञ्चशतचतुरशीतिसंख्य रोगादीनां तीव्रविपाक उदयो यत्र तत्तथोक्तम् ॥ ३९॥ अथ तिर्यग्गतिं सार्धचतुर्गाथाभिः कथयति
तत्तो णीसरिदूर्ण जायदि तिरिए बहु-वियप्पेसु ।
तत्थ विपावदि दुक्खं गब्भे वि य छेयणादीयं ॥ ४० ॥
[ छाया - ततः निःसृत्य जायते तिर्यक्षु बहुविकल्पेषु । तत्रापि प्राप्नोति दुःखं गर्भे अपि च छेदनादिकम् ॥ ] जायते उत्पद्यते। क्व। तिर्यक्षु एकेन्द्रियविकलत्रय संत्य संज्ञिपञ्चेन्द्रियादिबहुविकल्पेषु । किं कृत्वा । ततः नरकेभ्यः निःसृत्य जीव एक समय में सहता है, उस सबका वर्णन करनेके लिये हजार जिह्वावाला भी समर्थ नहीं है ॥ भावार्थ - जब नरक में एक समय में होनेवाले दुःखोंका भी वर्णन करना शक्य नहीं है, तब जीवनभरके दुःखोंकी तो कथा ही क्या है ? ॥ ३७ ॥ अर्थ - नरकमें सभी वस्तुएँ दुःखको देनेवाली और अशुभ होती हैं, क्योंकि वहाँके क्षेत्रका ऐसा ही स्वभाव है । तथा नारकी सदा ही परस्पर में क्रोध करते रहते हैं ॥ ३८ ॥ अर्थ - पूर्वभवमें जो जीव अपना सगा सम्बन्धी था, नरकमें वह भी अति क्रुद्ध होकर घात करता है । इस प्रकार जीव बहुत समयतक दुःखके तीव्र उदयको सहता है । [ इसकी संस्कृतटीकामें ५६८९९५८४ प्रकारके रोग बतलाये हैं । अनु० ] भावार्थ- पूर्वभवका मित्र भी नरकमें जाकर शत्रु होजाता है, इसे वहाँके क्षेत्रका और अपने अशुभ कर्मोंका ही परिणाम समझना चाहिये ॥ ३९ ॥ अब साढ़े चार गाथाओंसे तिर्यञ्चगतिका वर्णन करते हैं । अर्थ - नरकसे निकलकर जीव अनेक प्रकारके तिर्यञ्चों में जन्म लेता है । वहाँ भी गर्भज अवस्था में भी छेदन वगैरहका दुःख पाता है | भावार्थ - तिर्यञ्च गति में दो जन्म होते हैं, एक सम्मूर्छन और दूसरा गर्भ । एकेन्द्रिय, द्वीन्द्रिय, त्रीन्द्रिय,
१ल मग खित । २ ल म स ग अण्णुण्णं । ३ [ हंति ] । ४ ब नेरश्या । ५ ब नरः । ७ ब तिरसु ।
Jain Education International
For Private & Personal Use Only
६ ल म स ग णीसरिऊणं ।
www.jainelibrary.org