________________
ज्ञानलोचनस्तोत्रम्
ज्ञानस्य विश्राम्यति तारतम्यं परप्रकर्षादतिशायनाच। यस्मिन्न दोषावरणे तुलावद्दृष्टेष्टशिष्टोक्तनयप्रकाशे ॥1॥ ध्यात्वा च यं ध्यायति नौति नुत्त्वा । नत्त्वा नमत्यत्र परं न लोकः । श्रुत्वाऽऽगमान् यस्य श्रृणोति नान्याञ् श्री पार्श्वनाथं तमहं स्तवीमि ।। 2 ।। युग्मम् ॥
तृणाय मत्वाखिललोकराज्यं निर्वेदमाप्तोऽसि विशुद्धभावैः । ध्यानैकतानेन च चेतसाभू: कैवल्यमासाद्य जिनेश ! मुक्तः ।। 3॥ वरं यथेष्टं वृणुतेऽत्र वर्या भिभूय राजन्यकमाशु विश्वम्। गुरुं च बुद्धं कपिलं हरार्दीस्तथा शिवश्री: सततं भवंतम्।। 4॥ परैः प्रणीतानि कुशासनानि दुरंतसंसारनिबंधनानि। त्वया तु तान्येव कृतानि संति तीक्ष्णानि भर्माणि यथा प्रयोगात्॥ 5 ॥
[1]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org