________________
भामंडले मारकतोपलाभे निमग्नकायाश्च चतुर्णिकायाः । रांतीव तीर्थे परमागमाख्ये देदीप्यमाने स्वदयारसेन ।। 21।।
घातीनि कर्माणि जितान्यनेन काल: समागच्छति नो समीपम्। इत्थं मुहुर्तापयतीव लोकान् दंध्वन्यते दुंदुभिरंतरिक्षे।। 22 ।।
क्षुदादयोऽनंतसुखोदयात्तेऽकिंचित्करा घातिविघातनाच। सत्तोदयाभ्यामविघातिनां किं तोतुद्यतेंडगं विविषाहिवत्ते।। 2311
नाश्नासि पश्यन् जिन ! नारकादीन् हताननंतांश्च हनिष्यमाणान्। चारित्रभंगात् खगतप्रसंगात् कल्पानि चात्रातिशयो हि कश्चित्।। 24।।
लौकांतिकानां त्रिदिवातिगानां पुंस्त्वोदये सत्यपि नांगनार्ति:। तथा ह्यसातोदयतो न पीडा सामग्रयभावान्न फलोदयस्ते।। 25।।
[9]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org