SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ मोहत्यागाष्टकम् (४) अहं ममेति मन्त्रोऽयम्, मोहस्य जगदान्थ्यकृत् । अयमेव हि नपूर्वः, प्रतिमन्त्रोऽपि मोहजित् ॥१॥ अहं ममेति मन्त्रोऽयमिति-अहमिति मोहस्यात्माऽशुद्धपरिणामस्य उपचारतः नृपेतिसंज्ञस्य अहं मम, इति अयं मन्त्रः जगदाध्यकृत्ज्ञानचक्षुरोधकः, अहमिति-स्वस्वभावेनोन्मादः परभावकरणे कर्तृतारूपोऽहंकारः अहम्, सर्वस्वपदार्थतः भिन्नेषु पुद्गलजीवादिषु इदं ममेति परिणामो ममकारः, इत्यनेन अहं ममेति परिणत्या सर्वपरत्वं स्वतया कृतम्, एषः अशुद्धाध्यवसाय: मोहजः, मोहोड्योतकश्च, शुद्धज्ञानाञ्जनरहितान् जीवान् (शुद्धज्ञानाञ्जनरहितानां जीवानाम्) आन्ध्यकृत् स्वरूपावलोकनशक्तिध्वंसकः, हि इति निश्चितम्, अयमेव नपूर्वकः प्रतिमन्त्रोविपरीतमन्त्रः मोहजित्-मोहजयो मन्त्रः, तथा च नाऽहम् एते ये परे भावा, ममापि एते न, भ्रान्तिः एषा, साम्प्रतं यथार्थपदार्थज्ञानेनाहं पराधिपः, न परभावा मम । उक्तं च [10] *एगोहं नत्थि मे कोई, नाहमन्नस्स कस्स वि । एवं अदीणमणसो, अप्पाणमणुसासई ॥२६॥ एगो मे सासओ अप्पा, नाणदंसणसंजुओ । सेसा मे बाहिरा भावा, सव्वे संजोगलक्खणा ॥२७॥ संजोगमूला जीवेण, पत्ता दुक्खपरम्परा । तम्हा संजोगसंबंधं 'सव्वं तिविहेण वोसिरे ॥२८॥ [आउरपच्च० गा० २६,२७,२८] इत्येवं विभाव्य द्रव्यकर्मतनुधनस्वजने भिन्नतां नीतेषु स्वभावैकत्वेन मोहजयो दृष्टः, अतः अहङ्कारममकारत्याग इष्ट इति ॥१॥ पुनस्तदेव भावयति * महापच्च० गा० १३,१६, संथारापोरिसी गा०११-१२-१३ चंदाविज्झयं -पय०गा०१६०-१६१ । १. सव्वे सर्वप्रतिषु । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002684
Book TitleGyansara Gyanmanjarivrutti
Original Sutra AuthorYashovijay Upadhyay, Devvachak
AuthorRamyarenu
PublisherKailashnagar Jain Sangh Surat
Publication Year2008
Total Pages506
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Spiritual
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy