________________
स्थिरताष्टकम् (३)
स्थिरस्य, परोपाधितः चलीभूतस्य सम्यग्दर्शनादिगुणावाप्तौ परभावादिष्वगमनरूपा आत्मनः स्थिरता प्रतन्यते, तत्र नामस्थापना सुगमा, द्रव्यतः स्थिरता योगचेष्टारोधरूपा, द्रव्ये स्थिरता मम्मणवत्, द्रव्येण स्थिरता रोगादिसम्भवा, द्रव्यरूपा स्थिरता द्रव्यस्थिरता आगमतः नोआगमतः आगमतः स्थिरतापदार्थज्ञस्य अनुपयुक्तस्य, नोआगमतः स्वरूपोपयोगशून्यस्य साध्यविकलस्य, प्राणायामादिषु कायोत्सर्गादिर्वा द्रव्यस्थिरता । भावतो द्विविधा अशुद्धा रागद्वेषमनोज्ञविषयेषु तन्मयत्वेन एकता, शुद्धा च सम्यग्दर्शनज्ञानचारित्रादिस्वरूपे तन्मयत्वरूपा, धर्मध्यानशुक्लध्यानादिषु अचलता भावस्थिरता, शुद्धसाध्यशून्या योगादीनां स्थिरता सा दुर्नयरूपा, या तु साध्यवार्त्तया साध्यनिष्पादनपरिणतिविकला नयाभासरूपा, या तु साध्याभिलाषसाध्योद्यमपरिणत्या कारणभूता योगादीनां द्रव्याश्रवत्यागरूपा स्थिरता सा आद्यनयचतुष्टयरूपा, या तु सम्यग्दर्शनज्ञानचारित्रेण स्वरूपसाधनसाध्यनिष्पादनाभ्यासवती स्थिरता सा शब्दनयस्थिरता, या तु धर्मशुक्लध्यानगतस्वरूपाप्रच्युतिपरिणतिरूपा समभिरूढनयस्थिरता, या तु क्षायिकदर्शनज्ञानचारित्रवीर्यसुखादिभ्योऽप्रच्युतिरूपा सा एवंभूतस्थिरता, विभावेऽपि सर्वनयरूपा स्थिरता तत्त्वविकलानामिष्यते । तथापि - अत्र परमानन्दसन्दोहभोगरूपसिद्धत्वसाधनरूपा१ स्वभावस्थिरता तस्या एवाऽवसरः सा व्याख्यायते । अनाद्यशुद्धतामग्नः स्वरूपसुखाप्राप्तौ इन्द्रियसुखेच्छया चलोऽयं जीवस्तस्य करुणया गुरुर्वक्ति
वत्स ! किं चञ्चलस्वान्तो, भ्रान्त्वा भ्रान्त्वा विषीदसि ? | निधिं स्वसन्निधावेव, स्थिरता दर्शयिष्यति ॥ १ ॥
वत्सेति- हे वत्स ! त्वं चञ्चलस्वान्तः - चपलान्तःकरणः सन् इतः भ्रान्त्वा, एकं त्यजन् अन्यं गृह्णन् अनादितः कथं विषीदसि - विषादवान् भवसि ? अप्राप्त्या दीनः, प्राप्त्या तृप्तः अत एव परभावे विषाद एव, सुखबुद्धया गृहीतस्य स्वयंसुखरूपाभावात् प्राप्तौ अपि न सुखमतः अत्र
१. साधनभूता L. D. 1.2. I २. तत्र L.D.1. I
Jain Education International
१९
For Private & Personal Use Only
www.jainelibrary.org