________________
मग्नाष्टकम् (२)
१५
व्यतिक्रामन्ति । असुरिंदवज्जियाणंति - चमर-बलिवर्जितानां तेण परंततः परम्, ततः-संवत्सरात्परतः, सुक्केति शुक्लो नामाभिन्नवृत्तोऽमत्सरी, कृतज्ञः, सदारम्भी, हितानुबन्धी, निरतिचारचरण इत्यन्ये, सुक्काभिजातित्ति शुक्लाभिजात्यं परमशुक्लमित्यर्थः, अत एवोक्तम्[6] आकिञ्चन्यं मुख्यम्, ब्रह्मापि परं सदागमविशुद्धम् । सर्वशुक्लमिदं खलु, नियमात् संवत्सरादूर्ध्वम् ॥१३॥ [ षोड० प्र० षोड०१२ श्लो०१३] एतच्च श्रमणविशेषमेवाश्रित्योच्यते, न पुनः सर्व एवंविधो भवति, अत्र मासपर्यायेति । संयमश्रेणिगतसंयमस्थानानां मासादिपर्यायगतसमयमात्राल्लङ्घनतत्प्रमाणसंयमस्थानोल्लडी मुनिर्ग्राह्यः इति । अत्र परम्परासम्प्रदायः, जघन्यतः उत्कृष्टं यावत् असङ्ख्येयलोकाकाशप्रमाणेषु संयमस्थानेषु क्रमाक्रमवर्त्तिनिर्ग्रन्थेषु मासतः द्वादशमाससमयप्रमाणसंयमस्थानोल्लङ्घनोपरितने वर्त्तमानः साधुरीदृग्देवतातुल्यं सुखमतिक्रम्य वर्त्तते इति ज्ञेयम् । उक्तञ्च धर्मबिन्दौ
१
[7] उक्तं मासादिपर्यायवृद्धया द्वादशभिः परम् । तेजः प्राप्नोति चारित्री, सर्वदेवेभ्य उत्तमम् ॥३६॥ [ध०बिं०प्र० अ०६, श्लो०३६]
तेजश्चित्तसुखलाभलक्षणं वृत्तौ । इत्येवम् आत्मसुखवृद्धिः आत्मज्ञानमग्नस्य भवति ॥५॥
ज्ञानमग्नस्य यच्छर्म, तद्वक्तुं नैव शक्यते । नोपमेयं प्रियाश्लेषैर्नापि तच्चन्दनद्रवैः ॥६॥
ज्ञानमग्नस्येति - ज्ञानमग्नस्य- आत्मस्वरूपोपलब्धियुक्तस्य, यत् शर्म - सुखं स्पर्शज्ञानानुभवानन्दः, तद् वक्तुं नैव शक्यते, अतीन्द्रियत्वात्
१. जघन्य : S. M., B.2, V.2 1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org