________________
मग्नाष्टकम् (२)
प्रत्याहृत्येन्द्रियव्यूहम्, समाधाय मनो निजम् ।
दधच्चिन्मात्रविश्रान्तिर्मग्न इत्यभिधीयते ॥१॥ __ प्रत्याहृत्येन्द्रिय इति इन्द्रियाणां स्पर्शनरसनघ्राणचक्षुःश्रोत्ररूपाणाम्, यो व्यूहः समूहस्तं प्रत्याहृत्य-प्रत्याहारं कृत्वा, विषयसंसारतो निवार्य, [2] (प्राणायामः प्राणयमः, श्वास-प्रश्वासरोधनम् ।) प्रत्याहारस्त्विन्द्रियाणाम्, विषयेभ्यः समाहृतिः" ॥८३॥
[अभि० चिन्ता० श्लो० ८३] इति वचनात् । निजं-स्वीयं मनः-चेतनावीर्यैकत्वविकल्परूपं समाधाय-समाधौ संस्थाप्य विषयनिरोधम्-आत्मद्रव्यैकाग्रतारूपं कृत्वा, [3] समाधिस्तु तदेवार्थमात्रा भासनपूर्वकम् । (एवं योगो यमाद्यङ्गैरष्टाभिः सम्मतोऽष्टधा ॥८५॥)
[अभि० चिन्ता० श्लो० ८५] . आत्मस्वरूपभासनैकत्वरूपसमाधिः, तत्र मनः कृत्वा, चिन्मात्रेज्ञानमात्रे आत्मनि, मुख्यतः दर्शनज्ञानमय एव आत्मा, उवउत्तो नाणदंसणगुणेहिं इति वाक्यात् । ज्ञानस्वरूपे स्वद्रव्ये विश्रान्तिं दधत् मग्न इति अभिधीयते-कथ्यते, इत्यनेन अनादितः अयं जीवः पुद्गलस्कन्धजवर्ण-गन्ध-रस-स्पर्श-शब्दादिषु मनोज्ञेषु स्वजनादिषु च भ्रमन् विकल्पकोटिकोटि प्राप्त इष्टान् विषयानिच्छन्ननिष्टान् विषयाननिच्छन् वातोद्भूतशुष्कपलाशवद् भ्रमति । स च कदाचित् स्वपरविवेकरूपं भेदज्ञानं प्राप्यानन्तज्ञानदर्शनानन्दमयं स्वीयं भावं स्वतया निर्धार्य, इदं विषयसङ्गादिकं न मम, नाहम् अस्य भोक्ता, उपाधिरेव एषा, नहि मम कर्तृत्वं भोक्तृत्वं ग्राहकत्वं च परवस्तूनाम्, मया हि स्वरूपभ्रष्टेनेदं विहितम्, सांप्रतं जिनागमाञ्जनेन जातस्वपर-विवेकेन तेषु रमणास्वादनं न युक्तमिति विचार्य स्वरूपानन्तस्वभावगुणपर्यायस्याद्वादानन्तात्मनि विश्रान्ति प्राप्तः, आत्मानमनन्तानन्दसंपन्मयं ज्ञात्वा, परमात्मसत्तास्वरूपे मग्नो भवति, स मग्नः अभिधीयत इति ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org