________________
,
श्रीज्ञानमञ्जरी मण्यनन्तकोटिप्राप्तौ अपि न तृप्तिः, तृष्णाया अनन्तगुणत्वात् सदैवापूर्णत्वात् न्यूनतामेव पश्यन्ति । तृष्णाया विभावत्वात्, परित्यागे सुखम् । स्वशब्देन आत्मा तत्रैव स्वत्वं स्वस्वत्वं तदुत्पन्नसुखमात्मस्वभावनिर्धारभासनरमणानुभवरूपं सुखं तेन पूर्णस्य मुनेः हरेरपिइन्द्रादपि न न्यूनता यतः इन्द्रादीनां शुभाध्यवसायनिबद्धपुण्यविपाकभोगिनामात्मगुणानुभवशून्यानां दीनत्वमेव विलोक्यते तत्त्वरसिकैः । स्वरूपसुखलेशोऽपि जीवनं परमामृतम्, पुण्योदयोद्भवसुखकोटिरपि स्वगुणावरणत्वेन महद् दु:खम्, अहह ! बन्धसत्तातोऽपि उदयकालः दारुणः, येनात्मनो गुणावरणता, अतः स्वरूपसुखे रुचिः कार्या ॥७॥ "कृष्णे पक्षे परिक्षीणे, शुक्ले च समुदञ्चति । द्योतते सकलाध्यक्षा, पूर्णानन्दविधोः कला ॥८॥ ॥ इति पूर्णाष्टकम् ॥ १ ॥
६ कृष्ण पक्षे इति - कृष्ण पक्षे परिक्षीणे-क्षयं प्राप्ते शुक्ले पक्षे समुदञ्चति - उदयं प्राप्ते सति 'सकलाध्यक्षा' - सकलजनप्रत्यक्षा विधोःचन्द्रस्य कला द्योतते इति लोकप्रवृत्तिः । एवं "कृष्ण पक्षे अर्धपुद्गलाधिकसंसाररूपे क्षीणे सति, शुक्लपक्षे अर्द्धपुद्गलाभ्यन्तरसंसाररूपे प्रवर्तमाने सति पूर्णानन्द - आत्मा, स एव विधुश्चन्द्रस्तस्य कलास्वरूपानुयायिचैतन्यपर्यायप्राग्भावरूपा द्योतते - शोभते इत्यर्थः । शुक्लपक्षे प्राप्ते आत्मनि चेतनापर्यायः शोभते, कृष्णपक्षे हि अनादिक्षयोपशमीभूतचेतनावीर्यादिपरिणामः, मिथ्यात्वासंयमैकत्वेन संसारहेतुत्वात् न शोभत इत्यर्थः । अस्य हि आत्मनः स्वरूपसाधनावस्था एव प्रशस्या । कृष्णपक्षशुक्लपक्षलक्षणं तु
-
Jain Education International
१. तदुक्तं० B.1., V.1.2, A.D., S.M. । २. इन्द्रादेरपि S. M., V.2. 1 ३. शुभाशुभा० B. 1.2., A. D. । ४. गुणावरणम् S. M., V. 1. 2., B. 2. 1 ५. कृष्णपक्षे S. M., B. 1. 2., V. 1. 2. I ६. कृष्णपक्षे S. M., V. 1. 2. 1 ७. कृष्णपक्षे S. M., V. 1. 2. 1 ८. शुक्ले B.1. 2. I
For Private & Personal Use Only
-
www.jainelibrary.org