________________
१७४
काल-स्वभाव-नियति- पूर्वकृत- पुरुषकारणरूपा एकान्ताः सर्वेऽपि एकका मिथ्यात्वम्, त एव समुदिताः परस्पराऽजहद्वृत्तयः सम्यक्त्वरूपतां प्रतिपद्यन्ते इति तात्पर्यार्थः ।
तत्र काल एवैकान्तेन जगतः कारणमिति कालवादिनः प्राहुः । तथाहिसर्वस्य शीतोष्णवर्ष-वनस्पति- पुरुषादेर्जगतः प्रभव- स्थिति - विनाशेषु ग्रहोपरागयुतियुद्धोदयास्तमयगतिगमनागमनादौ च कालः कारणम्, तमन्तरेण सर्वस्याऽस्याऽन्यकारणत्वाभिमतभावसद्भावेऽप्यभावात् तत्सद्भावे च भावात् । तदुक्तम्
कालः पचति भूतानि कालः संहरति प्रजाः ।
कालः सुप्तेषु जागर्ति, कालो हि दुरतिक्रमः ॥ ( महाभा० आदिपर्व अ० १ श्लो० २७३)
असदेतत्-तत्कालसद्भावेऽपि वृष्ट्यादेः कदाचिद् दर्शनात् । न च तदभवनमपि तद्विशेषकृतमेव नित्यैकरूपतया तस्य विशेषाभावात् । विशेषे वा तज्जननाऽजननस्वभावतया तस्य नित्यत्वव्यतिक्रमात् स्वभावभेदाद् भेदसिद्धेः । न च ग्रहमण्डलादिकृतो वर्षादेर्विशेषः, तस्यापि अहेतुकतयाऽभावातून च काल एव तस्य हेतु:, इतरेतराश्रयदोषप्रसक्तेः - सति कालभेदे वर्षादिभेदहेतोर्ग्रहमण्डलादेर्भेदः तद्भेदाच्च कालभेद इति परिस्फुटमितरेतराश्रयत्वम् । अन्यतः कारणाद् वर्षादिभेदे न काल एव एकः कारणं भवेद्-इत्यभ्युपगमविरोधः । कालस्य च कुतश्चिद् भेदाभ्युपगमे अनित्यत्वमित्युक्तम् । तत्र च प्रभव- स्थिति - विनाशेषु यद्यपरः कालः कारणम्, तदा तत्रापि स एव पर्यनुयोग इत्यनवस्थानान्न वर्षादिकार्योत्पत्तिः स्यात् । न चैकस्य कारणत्वं युक्तम्, क्रम- यौगपद्याभ्यां तद्विरोधात् । तन्न काल एव एकः कारणं जगतः ।
(स्वभावैककारणवादमुपन्यस्य तस्यैकान्तिकत्वनिरास: 1 )
अपरे तु - 'स्वभावत एव भावा जायन्ते' इति वर्णयन्ति । अत्र यदि 'स्वभावकारणा भावाः' इति तेषामभ्युपगमस्तदा स्वात्मनि क्रियाविरोधो दोषः । न ह्यनुत्पन्नानां तेषां स्वभावः समस्ति । उत्पन्नानां तु स्वभावसंगतावपि प्राक् स्वभावाऽभावेऽपि उत्पत्तेर्निर्वृत्तत्वाद् न स्वभावस्तत्र कारणं भवेत् । अथ 'कारणमन्तरेण भावा भवन्ति स्व-परकारणनिमित्तजन्मनिरपेक्षतया सर्वहेतुनिराशंसस्वभावाः भावाः । तथा चात्र स्वभाववादिभिर्युक्तिः प्रदर्श्यते - यदनुपलभ्यमानसत्ताकं तत् प्रेक्षावतामसद्व्यवहारविषयः यथा शशशृङ्गम्, अनुपलभ्यमानसत्ताकं च भावानां कारणमिति स्वभावानुपलब्धिः । न चायमसिद्धो हेतुः कण्टकादि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org