________________
नान्यथाऽपि, प्रवृत्तिनिमित्ताभावात्, एष च मार्गो द्रव्यार्थपर्यायार्थाश्रयः, तौ च सङ्ग्रहाद्यात्मको, सङ्ग्रहादयश्चार्थशब्दनयरूपेण प्रधाविताः, तत्र सङ्ग्रहव्यवहारर्जुसूत्रैरर्थनयै? द्रव्यार्थपर्यायार्थों तदाश्रयैषा सप्तभङ्गी । तत्र अनपेक्षितोपदेशकशब्दव्यापारमिन्द्रियानिन्द्रियनिमित्तमर्थरूपोत्पादितं मतिज्ञानम्, अर्थनया वक्तृपरिच्छेदविषयाः, ते त्वर्थपृष्टेनैवार्थं गमयन्ति । शब्दनयास्तु साम्प्रतिकसमभिरूद्वैवंभूतनयाः श्रोतृविषयाः श्रुतज्ञानात्मकाः शब्दरूपरूपिताविज्ञानत्वाच्छब्दप्रमाणकाः, यच्छब्द आह यथा च तथैवार्थ इति शब्दपृष्टेनार्थपरिच्छेदं कुर्वन्ति, अत एवैतेष्वभिधानस्वरूपशुद्धिपरा चिन्ता, चक्षुविमलीकरणाञ्जनवत् । तत्रार्थनयाः सत्त्वासत्त्ववर्तमानसत्त्वमात्रैषिणः प्रत्येकात्मकाः संयुक्ताश्च सप्तविधवचननिर्वचनप्रत्यलाः । विविक्तसत्त्वमात्रपरिग्रहात् सत्त्वसङ्ग्रहः, अन्यासत्त्वमेव सत्त्वमिति व्यवहारः वर्तमानप्रधानत्वाद् वर्तमानमेव सत्त्वमृजुसूत्रः । तत्र स्यादस्तीति सङ्ग्रहः १ स्यान्नास्तीति व्यवहारः २ सङ्ग्रहव्यवहारयोगात् स्यादवक्तव्यः ३ सङ्ग्रहव्यवहारविभागसंयोगादेव स्यादस्ति च नास्ति च ४. स्यादस्त्यवक्तव्यश्चेत्यत्र सङ्ग्रहः सङ्ग्रहव्यवहारौ चाविभक्तौ ५ स्यान्नास्त्यवक्तव्यश्चेत्यत्र व्यवहारः सङ्ग्रहव्यवहारौ चाविभक्तौ ६ स्यादस्ति नास्त्यवक्तव्यश्चेत्यत्र विभक्तौ सङ्ग्रहव्यवहारावविभक्तौ वा ७, इत्येवमर्थपर्यायैः सप्तधा वचनव्यवहारः । व्यञ्जनपर्यायाः शब्दनयास्ते त्वभेदभेदद्वारेण वचनमिच्छन्ति, शब्दनयस्तावत् समानलिङ्गानां समानवचनानां च शब्दानामिन्द्रशक्रपुरन्दरादीनां वाच्यं भावार्थमेवाभिन्नमभ्युपैति, न जातुचिद् भिनलिङ्गं भिन्नवचनं वा शब्दं स्त्री दारास्तथाऽऽपो जलमिति, समभिरूढस्तु प्रत्यर्थं शब्दनिवेशादिन्द्रशकादीनां पर्यायशब्दत्वं न प्रतिजानीते, अत्यन्तभिन्नप्रवृत्तिनिमित्तत्वाद् भिन्नार्थत्वमेवानुमन्यते, घटशक्रादिशब्दानामिवेति, एवंभूतः पुनर्यथासद्भावं वस्तु वचसो गोचरमापृच्छतीच्छति, चेष्टाविष्ट एवार्थो घटशब्दवाच्यश्चित्रालेखनोपयोगपरिणतश्च चित्रकारः, चेष्टारहितस्तिष्ठन् घटो न घटशब्दवाच्यः, तच्छब्दार्थरहितत्वात्, कुटशब्दवाच्यार्थवत्, नापि भुञ्जानः शयानो वा चित्रकाराभिधानाभिधेयश्चित्रज्ञानोपयोगपरिणतिशून्यत्वाद् गोपालादिवत्, एवमभेदभेदार्थवाचिनोऽनेकैक शब्दवाच्यार्थावलम्बिनश्च शब्दप्रधाना अर्थोपसर्जनाः शब्दनयाः प्रदीपवदर्थस्य प्रतिभासकाः व्यञ्जनपर्यायसंज्ञकाः । तदेवमर्थव्यञ्जनपर्यायार्पणानर्पणद्वारैकानेकात्मकैकार्थनिरूपणवदभिधानप्रत्ययविषयाऽपि भावनाऽभिधेया । तत्र पुद्गलद्रव्यपरिणतिविशेषः शब्दोऽभिधानः, पुद्गलद्रव्यं चातीतवर्तमानागामिभूरिपर्यायपरिणाम्यर्पितभजनापेक्षया सदसन्नित्यानित्याद्यनेकधर्मात्कम्, प्रत्ययोऽपि हि ग्रहणलक्षणात्मद्रव्यांशापेक्षया सङ्ख्यापरिमाणाकाराद्यनेकरूपपर्यायापेक्षया च सदसन्नित्यानित्यादिस्वभाव इत्येवं सदसन्नित्यानित्यादिस्वभावं जगत् पञ्चास्तिकायात्मकमर्पितानर्पितलक्षणसकलशास्त्रगर्भत्रिसूत्रीविन्यासस्याद्वादप्रक्रियासङ्गतेः सिद्धम् ॥३१॥ ૨૯
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org