________________
१६२ चासावुभयपर्यायश्च तदुभयपर्यायस्तदुभयपर्यायनिमित्तस्तद्विषयो वाऽप्यादेशस्तेनार्पित मात्मतत्त्वमस्तिनास्तिरूपेण युगपद्विवक्षायामुक्तप्रकारभावनया न शक्यं वक्तुमित्यवाच्यम्, ताभ्यामुभयपर्यायाभ्यामादिष्टं युगपदात्मरूपं द्रव्यं वेत्यादि विकल्प्यते, न वाच्यं सदित्यसदिति वा सद् द्रव्यमसद् वा द्रव्यं न वक्तव्यम्, क्रमेण त्वादेशे भवत्येतदेवम्, सहभावार्पणायां तु न सच्छब्दवाच्यं नासच्छब्दाभिधेयम्, एकस्मिन् काले तादृग्विधवाचकशब्दाभावात् ॥ ननु च तदुभयपर्याये वेत्येकवचनमुपपन्नम्, एकपर्यायविवक्षायामवक्तव्याभावात् । अत्रोच्यते-उभयग्रहणाद् द्वयमत्र गृह्यते । एवं तर्हि तदुभयपर्याययो।त्यस्मादविशेषः, नैतदेवम्, यतस्तदुभयपर्याये विशेषविवक्षयाऽस्तित्वं हि स्वपर्यायविषयं परपर्यायविषयं चेत्युभयपर्यायस्तत् तु स्वपर्यायेणावच्छिद्यमानमिहास्तीति गृह्यते, तदेव च परपर्यायेणावच्छिद्यमानमात्मनि नास्तीति ग्राह्यमिदानीमुभयपर्यायो युगपदर्पणायां भवत्यवक्तव्यः, इतरत्र तु प्रधानभेदव्याख्यायां द्विवचनादिनिर्देशः समीचीनः, जातिविवक्षायां वा जातेरेकत्वादेकवचनसिद्धिरिति ॥
___ एवमेते त्रयः सकलादेशा भाष्येणैव विभाविताः सङ्ग्रहव्यवहारानुसारिण आत्मद्रव्ये, सम्प्रति विकलादेशाश्चत्वारः पर्यायनयाश्रया वक्तव्यास्तत्प्रतिपादनार्थमाह भाष्यकारः -
भा०-देशादेशेन विकल्पयितव्यमिति ।
टी०-इतिकरणो विकल्पेयत्ताप्रतिपादनार्थः । पर्यायास्तिकमिति नपुंसकलिङ्गप्रकान्तेर्विकल्पयितव्यमित्याह, किं पुनः कारणं भाष्यकृता सकलादेशत्रयवदितरेऽपि चत्वारो विकलादेशा भाष्येण नोक्ता इति ? । अयमभिप्रायो भाष्यकारस्य लक्ष्यतेसकलादेशसंयोगाच्चतुर्णां निष्पत्तिरिति सुज्ञानाः, तत्राद्यद्वितीयविकल्पसंयोगे तुर्यविकल्पनिष्पत्तिः स्यादस्ति च नास्ति चेति । प्रथमतृतीयविकल्पसंयोगे पञ्चमविकल्पनिष्पत्तिः स्यादस्ति चावक्तव्यश्चेति । द्वितीयतृतीयविकल्पसंयोगे षष्ठविकल्पनिष्पत्तिः स्यान्नास्ति चावक्तव्यश्चेति । प्रथमद्वितीयतृतीयविकल्पसंयोगे सप्तमविकल्पनिष्पत्तिः स्यादस्ति च नास्ति चावक्तव्यश्चेति । तत्राद्येषु त्रिषु विकल्पेषु सकलमेव द्रव्यमादिश्यते, चतुर्थादिषु पुनर्विकल्पीकृतं खण्डश आदिश्यते । तदाहदेशादेशेनेत्यादि । सकलस्य वस्तुनो बुद्धिच्छेदविभक्तोऽवयवो देशस्तस्मिन् देशे आदेशो देशादेशस्तेन देशादेशेन विकल्पनीयं-व्याख्येयम्, आत्मादितत्त्वमित्येवं विकल्पचतुष्टयस्यापि ग्रहणम् । तत्र चतुर्थ उभयप्रधानो विकल्पः, क्रमेणोभयस्यापिशब्देनाभिधेयत्वात्, देशादेशो हि विकलादेशस्तस्य वस्तुनो वैकल्यम्, स्वेन तत्त्वेनाप्रविभक्तस्यापि विविक्तं गुणरूपं स्वरूपेणोपरञ्जकमपेक्ष्य प्रतिकल्पितमंशभेदं कृत्वाऽनेकान्तात्मकैकत्वव्यवस्थायां नरसिंहनरसिंहत्ववत् समुदायात्मकमात्मरूप
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org