SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ १५९ शुक्लकृष्णावसंसृष्टौ नैकस्मिन्नर्थे वर्तितुं समर्थों, एवं सदसत्त्वाभ्यां संसर्गाभावान युगपदभिधानमस्ति, नाप्येकशब्दः शुद्धः समासजो वाक्यात्मको वाऽस्ति गुणद्वयस्य सहवाचकः, क्रमेण सदसच्छब्दयोः प्रयोगे यद्यसच्छब्दः सदसत्त्वे यौगपद्येन ब्रवीति, एवं तर्हि स्वार्थवत् सत्त्वमप्यसत् कुर्यात्, तथैव सच्छब्दोऽपि स्वार्थवदसदपि सत् कुर्यात्, · विशेषशब्दत्वाच्च सदित्युक्ते नासदभिधीयते, न चासदित्युक्ते सदित्युक्तं भवति, अतो युगपदवाचक एकशब्दः । अथ युगपत् सदसच्छब्दौ गुणद्वयस्य वाचकाविष्येते, ततः समासवाक्यमाख्यातादिपदसमुदायवाक्यं वा भवेत् तत्र च समासवाक्यं न वाचकम्, द्वन्द्वस्तावदुभयपदार्थप्रधानः प्लक्षन्यग्रोधवद्, अस्त्यादिभिः क्रियाभिस्तुल्ययोगित्वात्, क्रियाश्रयत्वाच्च द्रव्यस्य प्राधान्यं न गुणत्वम्, यश्च गुणक्रियाशब्दानां द्वन्द्वो रूपरसादीनामुत्क्षेपणावक्षेपणादीनां च, तत्रापि गुणाः शब्दशक्तिस्वाभाव्याद् द्रव्यरूपा एवोच्यन्तेऽस्त्यादिक्रियायोगित्वात्, अन्यथा द्वन्द्वाभावात् । अत्र चात्मा विशेष्यद्रव्यं सदसतोगुणवचनत्वमतो गुणस्य गुण्यभेदोपचारेणाभिधानम्, सनात्माऽसन्नात्मेत्यतो न द्वन्द्वः ॥ ननु च द्रव्येऽपि स्याद्वादोऽस्ति, न गुणविषय एव, यथा स्याद् घटः स्यादघट इति, अत्रापि हि द्रव्यं गुणरूपोपपन्नमेवोच्यते, शब्दशक्तिस्वाभाव्याद् विशेषणविशेष्यभावापत्तेर्द्रव्यस्य विशेष्यत्वात्, स्याद् घट इदं वस्त्विति वाक्यं च वृत्तेरभिन्नार्थं केवलं विभक्तिश्रवणाद् रूपेण भिद्यते, अतो वाक्येनापि युगपत् प्रयोगासम्भवः । समानाधिकरणसमासवाक्यमपि न सम्भवति, तत्र हि द्रव्यगुणयोः सामान्यविशेषभावे सति द्रव्यशब्दतायां सामानाधिकरण्यं नीलोत्पलादिवत्, अत्र च सदसतोर्गुणत्वात् परस्परं भेदे सति न सामानाधिकरण्यमद्रव्यशब्दत्वात् सामान्यविशेषरूपेणास्थितत्वान्नास्तिविशेषणाविशेष्यसमानाधिकरणसमासः कर्मधारयश्चार्थयोरिष्यते, न चान्यत् प्रतिपदविहितं समासलक्षणमस्ति, तस्मात् समासाभावाद् युगपत् प्रयोगाभावस्तद्वाक्येऽपि सामर्थ्याभावाद् वृत्त्यनुरोधिवाक्यत्वाच्चातो न कर्मधारयः । नाप्याख्यातादिपदसमुदायो वाक्यं संश्चासंश्चात्मेति, भवत्यादिक्रियासम्बन्धात्, तत्र सामान्यशब्दो युगपदनेकमर्थमभिदध्यात् न चाभिदधीत, "अभिहितानां सामान्यशब्देन विशेषाणां नियमार्था पुनः श्रुतिः" इति न्यायात्, न वा ब्रूयादनेकमर्थमभिधानोपायासम्भवात्, "तन्मात्राकाङ्क्षणाद् भेदः स्वसामान्येन चोज्झितः" इति न्यायात् सामान्यशब्देष्वेवं न विशेषशब्देषु धवखदिरादिषु, विशेषशब्दास्तु वाक्ये प्रयुज्यमानाः केवलाः स्वार्थमेव ब्रुवते संश्चासंश्चेति, न त्वनेकमर्थं स्वार्थमात्राभिधानान्न सहगुणद्वयाभिधायिता ॥ ननु च वाक्ये द्वयोरपि शब्दयोरेकतया युगपद्भावः, तन्न, पदेभ्यो वाक्यशब्दस्य शब्दान्तरत्वात्, एक एव हि शब्द इष्यते वाक्यम्, तस्य चार्थान्तरेणैकेनैव प्रतिभारूपेण भाव्यम्, अतोऽत्रापि गुणद्वयवचनस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002684
Book TitleGyansara Gyanmanjarivrutti
Original Sutra AuthorYashovijay Upadhyay, Devvachak
AuthorRamyarenu
PublisherKailashnagar Jain Sangh Surat
Publication Year2008
Total Pages506
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Spiritual
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy