SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ चिन्तायां पार्थ एव धनुर्धरो नान्य इति प्रतिविशिष्टधनुर्धरतायां सहान्यैर्योगो व्यवच्छिद्यत इति । क्वचिदत्यन्तायोगव्यवच्छेदो नीलमेव सरोजमित्यत्र, न सरोजं सकलद्रव्यभाविनीलगुणमात्मसात्करोति, तथा नीलत्वमपि न समस्तसरोजाक्षेपि, अत एवोभयव्यभिचारादुभयविशेषणत्वम्, अत्र च नीलतायाः किलात्यन्तमयोगो व्यवच्छिद्यते, नात्यन्तमयोगः-असम्बन्धः सरोजेन सह नीलतायाः । सर्वत्र चैवकारस्य विवक्षावशात् साक्षादप्रयोगेऽपि व्यवच्छेदार्थप्रतीतिरतो निरन्वयदोषाभावस्तदयोगव्यवच्छेदेन विशेषणादिति । अत्रोच्यते-सर्वमेतद् व्यामोहभाषितं दुर्बुद्धेरुद्धरतः परप्रयुक्तदूषणानि, यस्मादयोगे व्यवच्छिन्नेऽपि प्रागेतन(?) दोषसम्पातो न निवर्तते, अयोगव्यवच्छेदेन ह्यस्तिना योग इष्यते, स च योगः किं सामान्यरूपेणास्तिना प्रत्याय्यतेऽथ विशेषरूपेण उतोभयरूपेणेति सर्वथा प्राक्तनदोषप्रसङ्गः, व्यवच्छेदोऽप्यस्तित्वसामान्यायोगस्य वाऽस्तित्वविशेषायोगस्य वा उभयायोगस्य वा? यद्यस्तित्वसामान्यायोगव्यवच्छेदः, ततोऽस्तित्वविशेषायोगव्यवच्छेदाभाव प्रसङ्गस्तस्मिंश्चाव्यवच्छिन्ने सर्वास्तित्वविशेष स्वभाव आत्मादिः प्रसक्तः अथास्तित्वविशेषायोगव्यवच्छेद इष्टः, एवं तॉस्तित्वसामान्ययोगव्यवच्छेदाभावप्रसङ्गः, ततः प्रागेतनदोषव्रातस्तदवस्थः, अथोभयायोगव्यवच्छेदः, तथापि सामान्यविशेषास्तित्वोभयस्वभावः आत्मादिरभ्युपेतः स्यात्, ततश्च निष्फलमवधारणम्, सामान्यास्तित्वेन चास्त्यात्मादिविशेषास्तित्वेन च, ततश्च स्वगतविशेषास्तित्वेनास्ति परगतविशेषास्तित्वेन नास्ति वस्तु स्यादस्ति स्यान्नास्तीति सिद्धम्, अनेकान्तरूपमेव समस्तवस्तु व्यवहारास्पदतामानयन्तस्तत्कारिणस्तद्वेषिणश्च केचिज्जायन्ते जगत्यकारणाविष्कृतमत्सरप्रसराः खलु दुर्जनाः । यत्राप्यन्ययोगव्यवच्छेदोऽभिप्रेतस्तत्रापि योगविशेषो व्यवच्छिद्यते न योगसामान्यम्, यादृक् पार्थे धनुर्धरता तादृगन्यत्र नास्तीति । अत्यन्तायोगव्यवच्छेदेऽपि अत्यन्तमयोगो नास्ति योग एव सर्वथा अथवा कदाचिदस्ति कदाचिन्नास्तीत्येवं च विकल्पद्वयेऽपि प्राच्य एव प्रसङ्गो योज्यः ॥ प्रकृतमनुत्रियते-सर्वथा सामान्यविशेषरूपत्वात् प्रकारवदस्तित्वमतः सामान्यास्तित्वेनास्ति विशेषास्तित्वेन नास्त्यात्मा स्यादस्ति स्यानास्तीति, तथा यदस्ति तनियमेन द्रव्यक्षेत्रकालभावरूपेणैवात्मलाभं लभते, यथाआत्मा जीवद्रव्यतया, क्षेत्रत इह क्षेत्रतया, कालतो वर्तमानकालसम्बन्धितया, भावतो ज्ञानदर्शनोपयोगमनुष्यगतितयेति प्रतिपादिते गम्यत इदं-द्रव्यक्षेत्रकालभावान्तर सम्बन्धितया नास्त्यात्मा । यदि च सर्वद्रव्यतयाऽऽत्मा स्याद, आत्मैवासौ न भवेत, द्रव्यत्ववत्, सर्ववृत्तितया वा, तद्रूपतया च सर्वकालसम्बन्धित्वाद् व्योमवन्मनुष्यभावे वा समस्तनारकादिभावप्रसङ्ग एकान्तवादिनाम्, अतोऽवश्यं स्वद्रव्यादित्वेनैवास्तित्वमभ्युपेयम्, नान्यद्रव्यादित्वेन ॥ ततश्च स्वैरस्तित्वात् परैश्च नास्तित्वात् स्यादस्ति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002684
Book TitleGyansara Gyanmanjarivrutti
Original Sutra AuthorYashovijay Upadhyay, Devvachak
AuthorRamyarenu
PublisherKailashnagar Jain Sangh Surat
Publication Year2008
Total Pages506
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Spiritual
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy