SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ १५३ वेत्यादिना विकल्पत्रयेण सगृहीतं धर्मादि पञ्चविधम्, सकलभेदजालप्रसूतिहेतुत्वान्मातृकापदं मातृकास्थानीयमुच्यते धर्मादि, नातोऽन्यदस्तीति, अमातृकापदं वेत्यादिना तामेव परस्परव्यावृत्तिमभिव्यनक्ति, यदि धर्मादिपञ्चकव्यतिरेकि किञ्चिद् भवेत् ततस्तन्मातृकापदं वेत्यादिव्यपदेशो युज्येत, संज्ञास्वालक्षण्याद्यभावात् तच्चासत्, तस्मात् धर्म एवाधर्मलक्षणाद् व्यावर्तमानस्तेनाधर्मस्वलक्षणरूपेणासन्नित्युच्यते। एवं शेषेष्वपि भावना विधेया ॥ __सर्वसद्गतिविशेषाणां प्रसवहेतुत्वाद् धर्मास्तिकायो मातृकापदम्, स एव च सर्वसस्थितिविशेषप्रसवव्यावृत्त्यपेक्षया अमातृकापदम्, एवं द्विवचनबहुवचने विभावनीये । तस्मान्न द्रव्यास्तिकादि किञ्चिन्मातृकापदाव्यतिरेकि विद्यते, स्वभावासंक्रान्त्या तु परस्परापोहभावतः पदार्थव्यवस्थानम्, स चापोहः सल्लक्षणव्यवच्छेदेनैको यथा प्रमाणं प्रमेयं च सद्, यन्न प्रमाणं न प्रमेयं तदसदेव, अपरो धर्म्यन्तरस्य धर्म्यन्तरोत्पन्नवैशिष्ट्येनापोहः, तद्यथा-जीवोऽजीवो न भवत्यश्वो गौर्न भवतीति, तथाऽनपोहश्चेतनाचेतनयोर्द्रव्यदेशात, परस्परापोहे च द्रव्यादेशात् सर्वेषां धर्मादीनामनपोह इत्येवं सामान्यविशेषांनेकधर्मत्वाद् धर्मादयोऽपोहानपोहरूपाः सर्वे मातृकापदास्तिकम्, एवं द्रव्यार्थनयाभिप्रायो द्रव्यास्तिकमातृकापदास्तिकाभ्यामाख्यातः । पर्यायार्थनयावसरे त्विदमुच्यते __ भा०-उत्पन्नास्तिकस्य उत्पन्नं वा उत्पन्ने वा उत्पन्नानि वा सत् । अनुत्पन्नं वाऽनुत्पन्ने वाऽनुत्पन्नानि वाऽसत् ॥ टी०-उत्पन्नास्तिकस्येत्यादि । पर्यायार्थस्य मूलमजुसूत्रः, स च प्रत्युत्पन्नं वर्तमानक्षणमात्रं सर्वमेव धर्मादिद्रव्यं प्रतिजानीते, क्षणं क्षणं प्रत्युत्पन्नं पूर्वपूर्वक्षणविलक्षणम्, इदमेव च सतो लक्षणं यदुत्पद्यते प्रतिक्षणम्, उत्पादो हि वस्तुनो लक्षणम्, अनुत्पादाश्च व्योमोत्पलादयो न कथञ्चिल्लक्ष्यन्ते, तत्रात्मनां तावत् प्रतिक्षणमपरापरज्ञानदर्शनक्रियाधुत्पादो लक्षणम्, पुद्गला वर्ण-गन्ध-रस-स्पर्श-शब्दसंस्थान-तम-श्छायाधुत्पादलक्षणाः, धर्माधर्माकाशास्तु गन्तृस्थात्रवगाहमानगतिस्थित्यवगाहाकारोत्पादतः प्रतिक्षणमन्ये चान्ये च भवन्तीति, एषां च वर्तमानक्षण एव सत्यः, तस्मादेकमभिन्नं सकलभेदहेतुर्मातृकापदं नाम किञ्चिन्नास्ति व्यवहारनयपुरस्कृतम् । अपि च-व्यवहारोऽपि लौकिकः प्रत्युत्पन्नक्षणसाध्य एव, सतोऽर्थक्रियासामर्थ्यात् सँश्च वर्तमानक्षणः, क्रान्तानागतक्षणयोरसत्त्वान्नार्थक्रियासामर्थ्य सम्भाव्यते, तस्मादुत्पन्न एवास्ति क्षणः, तस्मिंश्च नान्वयि किञ्चिद् द्रव्यत्वादि विद्यते, ततश्च भूतान्वेषिणो न द्रव्यास्तिकं न मातृकापदास्तिकं किञ्चिदस्ति, उत्पन्नास्तिकमेव तु सत् सन्तत्या द्रव्यं वा धर्मादि वाऽभिधीयते, न भूततस्तदस्ति, सन्तानस्य सांवृतत्वात्, ते च वर्तमानक्षणा भूयांसः, तत्रैकक्षणविवक्षायामुत्पन्नास्तिकं सदिति विकल्पः, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002684
Book TitleGyansara Gyanmanjarivrutti
Original Sutra AuthorYashovijay Upadhyay, Devvachak
AuthorRamyarenu
PublisherKailashnagar Jain Sangh Surat
Publication Year2008
Total Pages506
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Spiritual
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy