________________
१३०
बुद्धिमतः- विशेषग्राहिधीशालिनः यदनुष्ठानं विशुद्धतरयोगं परिशुद्धतरव्यापारं क्रियया- बाह्यकारणेन इतरतुल्यमपि प्रीत्यनुष्ठानतुल्यमपि ज्ञेयं तत्-एवंविधं भक्त्यनुष्ठानम् ॥१०/४॥
कः पुनः प्रीतिभक्त्योर्विशेषः ? उच्यते
अत्यन्तवल्लभा खलु पत्नी तद्वद्धिता च जननीति । तुल्यमपि कृत्यमनोर्ज्ञातं स्यात् प्रीति-भक्तिगतम् ॥१०५॥ अत्यन्तेत्यादि । अत्यन्तवल्लभा खलु - अत्यन्तप्रियैव पत्नी- भार्या, तद्वत्पत्नीवद् अत्यन्तेष्टैव हिता च- हितकारिणी इति कृत्वा जननी माता तुल्यमपिसदृशमपि कृत्यं - भोजनाच्छादनादि, अनयो:- जननीपत्न्योः ज्ञातम् - उदाहरणं स्यात् प्रीतिभक्तिगतम् - प्रीतिभक्तिविषयम् । प्रीत्या पत्न्याः क्रियते भक्त्या मातुरितीयान् विशेष इति भावः । प्रीतित्व - भक्तित्वे क्रियागुणमानोरथिकहर्षगतौ जातिविशेषाविति तर्कानुसारिणः ॥ १० / ५ ॥
तृतीयमाह
वचनात्मिका प्रवृत्तिः, सर्वत्रौचित्ययोगतो या तु । वचनानुष्ठानमिदम्, चारित्रवतो नियोगेन ॥ १०/६॥
'वचने 'त्यादि । वचनात्मिका- आगमार्थानुस्मरणाऽविनाभाविनी प्रवृत्ति:क्रियारूपा सर्वत्र - सर्वस्मिन् धर्मव्यापारे क्षान्तिप्रत्युपेक्षादौ औचित्ययोगत:- देशकाल- पुरुष - व्यवहाराद्यानुकूल्येन या तु भवति, इदम्-एवं प्रवृत्तिरूपं वचनानुष्ठानं चारित्रवतः-साधोः नियोगेन नियमेन भवति, तस्यैव भवदुर्गलङ्घनं षष्ठगुणस्थानाऽवाप्तस्तत्र च लोकसंज्ञाऽभावात्, नान्यस्य विपर्ययात् । निश्चयनयमतमेतत् । व्यवहारतस्त्वन्यस्यापि मार्गानुसारिणो वचने प्रवर्त्तमानस्य देशत इदं भवत्येवेति द्रष्टव्यम् ||१०/६॥
तुर्यस्वरूपमाह→
यत्त्वभ्यासातिशयात्, सात्मीभूतमिव चेष्ट्यते सद्भिः । तदसङ्गनुष्ठानं, भवति त्वेतत्तदावेधात् ॥१०/७॥
'यत्त्वित्यादि । यत्तु - यत्पुनः अभ्यासातिशयात् - भूयो भूयः तदासेवनेन संस्कारविशेषात्, सात्मीभूतमिव - चन्दनगन्धन्यायेनाऽऽत्मसाद्भूतमिव चेष्ट्यतेक्रियते सद्भिः-सत्पुरुषैः जिनकल्पिकादिभिः तत् - एवंविधम् असङ्गानुष्ठानम् । भवति तु एतत् जायते पुनरेतत् तदावेधात् - प्राथमिकवचनसंस्कारात् ॥१०/७||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org