________________
१२६
[115] तह चेव एयबाहगचिंतारहियं थिरत्तणं नेयं ।
सव्वं परत्थसाहगरूवं पुण होइ सिद्धि त्ति ॥६॥
'तह चेव'त्ति । ' तथैव' प्रवृत्तिवदेव सर्वत्रोपशमसारं स्थानादिपालनमेतस्य पाल्यमानस्य स्थानादेर्बाधकचिन्तारहितं स्थिरत्वं ज्ञेयम् । प्रवृत्तिस्थिरयोगयोरेतावान् विशेष:- यदुत प्रवृत्तिरूपं स्थानादियोगविधानं सातिचारत्वाद्बाधकचिन्तासहितं भवति । स्थिररूपं त्वभ्याससौष्ठवेन निर्बाधकमेव जायमानं तज्जातीयत्वेन बाधकचिन्ताप्रतिघाताच्छुद्धिविशेषेण तदनुत्थानाच्च तद्रहितमेव भवतीति । 'सर्वं' स्थानादि स्वस्मिन्नुपशमविशेषादिफलं जनयदेव परार्थसाधकं - स्वसन्निहितानां स्थानादियोगशुद्ध्यभाववतामपि तत्सिद्धिविधानद्वारा परगतस्वसदृशफलसंपादकं पुनः सिद्धिर्भवति । अत एव सिद्धाऽहिंसानां समीपे हिंसाशीला अपि हिंसां कर्तुं नालम्, सिद्धसत्यानां च समीपेऽसत्यप्रिया अप्यसत्यमभिधातुं नालम् । एवं सर्वत्रापि ज्ञेयम् । 'इति:' - इच्छादिभेदपरिसमाप्तिसूचकः । अत्रायं मत्कृतः संग्रहश्लोकः "इच्छा तद्वत्कथाप्रीतिः पालनं शमसंयुतम् । पालनं (प्रवृत्ति:) दोषभीहानिः स्थैर्यं सिद्धिः परार्थता || १ ||" इति ||६|| (यो०वि० गा० ६ ) 27/4
"
[116] जं वाइद्धं वच्चामेलिअं हीणक्खरं अच्चक्खरं पयहीणं विणयहीणं घोसहीणं जोगहीणं सुद्बुदिन्नं दुट्टुपडिच्छियं अकाले कओ सज्झाओ, काले न कओ सज्झाओ, असज्झाए सज्झाइयं, सज्झाए न सज्झाइयं तस्स मिच्छा मि दुक्कडं ।
एए चोद्दस सुत्ता पुव्विल्लिया य एगूणवीसंति एए तेत्तीसमासायणसुत्तत्ति । एतानि चतुर्दशसूत्राणि श्रुतक्रियाकालगोचरत्वात् न पुनरुक्तभाञ्जीति, तथा दोषदुष्टपदं श्रुतं यदधीतम्, तद्यथा - व्याविद्धं विपर्यस्तरत्नमालावद्, अनेन प्रकारेण याऽऽशातना तया हेतुभूतया योऽतिचारः कृतस्तस्य मिथ्यादुष्कृतमिति क्रिया, एवमन्यत्रापि योज्या । व्यत्याम्रेडितं कोलिकपायसवत्, हीनाक्षरम् - अक्षरन्यूनम्, अत्यक्षरम्अधिकाक्षरम्, पदहीनं पदेनैवोनम् विनयहीनम् अकृतोचितविनयम्, घोषहीनम्उदात्ततादिघोषरहितम्, योगरहितम् - सम्यगकृतयोगोपचारम्, सुष्ठुदत्तं गुरुणा, दुष्ठु प्रतीच्छितं कलुषितान्तरात्मनेति, अकाले कृतः स्वाध्यायो यो यस्य श्रुतस्य कालिकादेरकाल इति, काले न कृतः स्वाध्यायः - यो यस्यात्मीयोऽध्ययनकाल उक्त इति अस्वाध्यायिके स्वाध्यायितम्, तथा स्वाध्यायिके- अस्वाध्यायिकविपर्ययलक्षणे न स्वाध्यायितम् । इत्थमाशातनया योऽतिचार: कृतस्तस्य मिथ्यादुष्कृतमिति पूर्ववत् । (आव०नि० पगामसिज्झा० ) 27/5
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org