________________
१११
मनःप्रसादक्रियाया अपि फलमभिमतम् । आह-नन्वनन्तरगाथायां दानादिक्रियाफलं कर्म इति वदता दानादिक्रियैव कर्मणः कारणमुक्ता, अत्र तु मनःप्रसादादिक्रिया तत्कारणमुच्यते, इति कथं न पूर्वापरविरोधः ? इति । सत्यम्, किन्तु मनःप्रसादादिक्रियैवानन्तर्येण कर्मणः कारणम्, केवलं तस्या अपि मनःप्रसादादिक्रियाया दानादिक्रियैव कारणम्, अतः कारणकारणे कारणोपचाराददोष इति ॥१६१५।। ॥१६१६॥ (विशेषा० गा० १६१५-१६) 21/1
194] एवमुक्तेन न्यायेन हीनादिजन्मप्रतिपत्तिः कर्मोदयजनितेति महद्वैराग्यकारणम्, तथेदमपरं वैराग्यस्य निमित्तमाख्याति -
देशकुलदेहविज्ञानायुर्बलभोगभूतिवैषम्यम् । दृष्ट्वा कथमिह विदुषाम्, भवसंसारे रतिर्भवति ॥१०२॥
टीका-देशो-मगधाङ्गकलिङ्गादिरार्यः, शकयवनकिरातादिरनार्यः, कुलमिक्ष्वाकुहरिवंशादिकम्, अपरं म्लेच्छदासचाण्डालादिकुलम् । सल्लक्षणावयवसन्निवेशविशेषो देहः, अपरः कुब्जहुण्डसन्निवेशादिः । विज्ञान-विशिष्टो बोधो जीवादिपदार्थविषयः अपरः प्रकृष्टाज्ञानपरिगतः किञ्चिज्ज्ञः । (आयुः) दीर्घेणायुषा यथा-कालविभागवर्तिना युक्तः, अपरस्तु गर्भकौमारयौवनावस्थादिषु अनियतायुः । बलं-शारीरादि, तेन सम्पन्नो वीर्यवान्, अपरो दुर्बलः स्वशरीस्मपि कथञ्चिद् धारयति । भोगवाननेकेष्टशब्दादिसम्पदुपभोगसमर्थः, अपरो भोगरहितस्सतोऽपि च भोगानसमर्थो भोक्तुम् । हिरण्यसुवर्णधनधान्यादिविभूत्या युक्त एकः, अपरो दारिद्र्याभिभतो जरदगी खण्डनिवसनः, एषां देशादीनां समद्धिपर्यन्तानां वैषम्यंविषमतां विलोक्य कर्मोदयजनिताम्, कथं-केन प्रकारेण, विदुषां-बुद्धिमतां नारकादिभवसंसारे रतिः-प्रीतिर्भवति ? । इति कर्मोदयनिमित्तं शुभाशुभलक्षणं देशादि विज्ञाय उद्वेगः संसारात्कार्यः । तस्माद् धर्मानुष्ठानादर एव श्रेयान् इति ॥१०२॥ (प्रशम० गा० १०२) 21/4 195] अप्पा कत्ता विकत्ता य, सुहाण य दुहाण य ।
अप्पा मित्तममित्तं च, दुष्पट्ठियसुपट्ठिओ ॥३७॥ यथा चैतदेवं तथाऽऽह-आत्मैव 'कर्ता'विधायको दुःखानां सुखानां चेति योगः । प्रक्रमाच्चात्मन एव विकरिता च विक्षेपकश्चात्मैव तेषामेव अतश्चात्मैव मित्रम्-उपकारितया सुहृत्, अमित्तं ति-अमित्रं च-अपकारितयाऽसुहृत् । कीहक् सन् ? दुप्पट्ठियसुप्पट्ठिओ'त्ति, दुष्टं प्रस्थितः प्रवृत्तो दुष्प्रस्थितः दुराचारविधातेतियावत्, सुष्ठ प्रस्थितः-सुप्रस्थितः सदनुष्ठानकर्तेतियावत्, योऽर्थः एतयोतर्विशेषण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org