________________
१०३ न उ पइसमयविणासे जेणिक्किक्कक्खरं चि य पयस्स । संखाइयसामाइयं संखेज्जाइं पयं ताइं॥ संखेज्जपयं वक्कं तदत्थगहणपरिणामओ होज्जा। सव्वखणभंगनाणं तदजुत्तं समयनट्ठस्स ॥
[विशेषाव० २४०१-२४०३] इति । तथा सर्वथोच्छेदे तृप्त्यादयो न घटन्ते, पूर्वसंस्कारानुवृत्तावेव तेषां युज्यमानत्वाद्, आह च
तित्ती समो किलामो सारिक्ख-विवक्ख-पच्चयाईणि । । अज्झयणं झाणं भावणा य का सव्वनासम्मि ? ॥
[विशेषाव० २४०४] त्ति । अत्र तृप्तिः-ध्राणिः, श्रमः-अध्वादिखेदः, क्लमो-ग्लानिः, सादृश्यं साधर्म्यम्, विपक्षो-वैधर्म्यम्, प्रत्ययः-अवबोधः, शेषपदानि प्रतीतानि, इत्यादि बहु वक्तव्यं तत्तु स्थानान्तरादवसेयमिति । तदेवमात्मा स्थिति-भवन-भङ्गरूपः स्थिररूपापेक्षया नित्यो नित्यत्वाच्चैकः, भवन- भङ्गरूपापेक्षया त्वनित्यः अनित्यत्वाच्चानेक इति, आह च
जमणंतपज्जयमयं वत्थु भुवणं व चित्तपरिणामं । . ठिइ-विभव-भंगरूवं णिच्चाणिच्चाइ तोऽभिमयं ॥
[विशेषाव० २४१६] त्ति । एवं चसुह-दुक्ख-बंध-मोक्खा उभयनयमयाणुवत्तिणो जुत्ता । एगयरपरिच्चाए सव्वव्ववहारवुच्छित्ति ॥ [विशेषाव० २४१७] त्ति ।।
अथवा एक आत्मा कथञ्चिदेवेति, यतो जैनानां न हि सर्वथा किञ्चिद्वस्तु एकमनेकं वाऽस्ति, सामान्य-विशेषरूपत्वाद्वस्तुनः । अथ ब्रूयात्-विशेषरूपमेव वस्तु, सामान्यस्य विशेषेभ्यो भेदाभेदाभ्यां चिन्त्यमानस्यायोगात्, तथाहि-सामान्य विशेषेभ्यो भिन्नमभिन्नं वा स्यात् ? न भिन्नमुपलम्भाभावाद्, न चानुपलभ्यमानमपि सत्तया व्यवहत्तुं शक्यम्, खरविषाणस्यापि तथाप्रसङ्गात् । अथाभिन्नमिति पक्षः, तथा च सामान्यमानं वा स्याद्विशेषमात्रं वेति, न ह्येकस्मिन् सामान्यमेकं विशेषास्त्वनेकरूपा इत्यसङ्कीर्णवस्तुव्यवस्था स्यादिति, अत्रोच्यते, न ह्यस्माभिः सामान्य-विशेषयोरेकान्तेन भेदोऽभेदो वाऽभ्युपगम्यते, अपि तु विशेषा एव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org