________________
१०१
भवतु नामावयवि द्रव्यम्, केवलमात्मा न विद्यते, तस्य प्रत्यक्षादिभिरनुपलभ्यमानत्वादिति, तथाहि-न प्रत्यक्षग्राह्योऽसावतीन्द्रियत्वात्, नाप्यनुमानग्राह्यः, अनुमानस्य लिङ्ग-लिङ्गिनोः साक्षात्सम्बन्धदर्शनेन प्रवृत्तेरिति, आगमगम्योऽपि नासौ, आगमानामन्योन्यं विसंवादादिति । अत्रोच्यते, केयमनुलपभ्यमानता ?, किमेकपुरुषाश्रिता सकलपुरुषाश्रिता वा ? यद्येकपुरुषाश्रिता, न तयाऽऽत्माभावः सिध्यति, सत्यपि वस्तुनि तस्याः सम्भवात्, न हि कस्यचित् पुरुषविशेषस्य घटाद्यर्थग्राहकं प्रमाणं न प्रवृत्तमिति सर्वत्र सर्वदा तदभावो निर्णेतुं शक्य इति, न हि प्रमाणनिवृत्तौ प्रमेयं विनिवर्तते, प्रमेयकार्यत्वात् प्रमाणस्य, न च कार्याभावे कारणाभावो दुष्ट इत्यनैकान्तिकताऽनुपलम्भहेतोः । सकलपुरुषाश्रितानुपलम्भस्त्वसिद्ध इत्यसिद्धो हेतुः, न ह्यसर्वज्ञेन सर्वे पुरुषाः सर्वदा सर्वत्रात्मानं न पश्यन्तीति वक्तुं शक्यमिति । किञ्च, विद्यते आत्मा, प्रत्यक्षादिभिरुपलभ्यमानत्वात्, घटवदिति, न चायमसिद्धो हेतुः, यतोऽस्मदादिप्रत्यक्षेणाप्यात्मा तावद् गम्यत एव, आत्मा हि ज्ञानादनन्यः, आत्मधर्मत्वात् ज्ञानस्य, तस्य च स्वसंविदितरूपत्वात्, स्वसंविदितत्वं च ज्ञानस्य नीलज्ञानमुत्पन्नमासीदित्यादिस्मृतिदर्शनात्, न ह्यस्वसंविदिते ज्ञाने स्मृतिप्रभवो युज्यते, प्रमात्रन्तरज्ञानस्यापि स्मृतिगोचरत्वप्रसङ्गादिति, तदेवं तदव्यतिरिक्तज्ञानगुणप्रत्यक्षत्वे आत्मा गुणी प्रत्यक्ष एव, रूपगुणप्रत्यक्षत्वे घटगुणिप्रत्यक्षत्ववदिति, उक्तं च
गुणपच्चक्खत्तणओ गुणी वि जीवो घडो व्व पच्चक्खो। घडओ वि घेप्पइ गुणी गुणमेत्तग्गहणओ जम्हा ॥ [विशेषाव० १५५८]
तथा
अन्नोऽणन्नो व्व गुणी होज्ज गुणेहिं जइ णाम सोऽणन्नो। ननु गुणमेत्तग्गहणे घेप्पइ जीवो गुणी सक्खं ॥ अह अन्नो तो एवं गुणिनो न घडादयो वि पच्चक्खा । गुणमेत्तग्गहणाओ जीवम्मि कुतो वियारोऽयं ? ॥
[विशेषाव० १५५९-१५६०] ति । ये तु सकलपदार्थसार्थस्वरूपाविर्भावनसमर्थज्ञानवन्तस्तेषां सर्वात्मनैव प्रत्यक्ष इति । तथाऽनुमानगम्योऽप्यात्मा, तथाहि-विद्यमानकर्तृकमिदं शरीरम्, भोग्यत्वात्, ओदनादिवत्, व्योमकुसुमं विपक्ष, स च कर्ता जीव इति । नन्वोदनकर्तृवन्मूर्त आत्मा सिध्यतीति साध्यविरुद्धो हेतुरिति, नैवम्, संसारिणो मूर्तत्वेनाप्यभ्युपगमाद्, आह च૨૫
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org