________________
९५
जघन्या, तत्परिणामस्य विशुद्धयपेक्षया जघन्यत्वात्, अविरतसम्यग्दृष्टेर्मध्यमा, तत्परिणामस्य विशुद्धिमङ्गीकृत्य मध्यमत्वात्, सामान्यविरतस्य तुत्कृष्टा, तत्परिणामस्य तथाविधत्वादेवेति, अथवा पुनर्बन्धकस्यापि त्रिधा प्रमोदरूपभावत्रैविध्यादेवमितरयोरपीति, अथापुनर्बन्धकादीनामिति कस्मादुक्तं ? मार्गाभिमुखादेरपि भावभेदसद्भावादित्यत्राह-शेषाणाम्-अपुनर्बन्धकादिव्यतिरिक्तानां सकृद्बन्धक - मार्गाभिमुख मार्गपतिततदितरमिथ्यादृशाम्, 'इमीति' इयमधिकृता भावभेदेन भेदवती वन्दना, पाठादिभेदवती तु स्यादपि, न-नैव, यद् - यस्मात्, समये - सिद्धान्ते, भणितेति शेष:, तेषां तद्योग्यताविकलत्वादिति गाथार्थः ||३|| 'अपुनर्बन्धकादीनामियं भवतीत्युक्तमतस्ताँल्लक्षणतो निरूपयन्नपुनर्बन्धकं तावदाह - 'पावे' त्यादि, पापम्-अशुद्धं कर्म, तत्कारणत्वाद्विसाद्यपि पापं तत्, न- नैव, तीव्रभावाद् - गाढसंक्लिष्टपरिणामात् करोति - विद्यते, अत्यन्तोत्कटमिथ्यात्वादिक्षयोपशमेन लब्धात्मनैर्मल्यविशेषत्वात्, तीव्रेतिविशेषणादापन्नमतीव्रभावात्करोत्यपि तथाविधकर्मदोषात्, तथा न बहु मन्यत - न बहुमानविषयी - करोति, भवं- संसारम्, घोरं रौद्रम्, तस्य घोरत्वावगमात् तथा उचितस्थितिम् - अनुरूपप्रतिपत्तिम्, चशब्दः समुच्चये, सेवते - भजते कर्मलाघवात्, सर्वत्रापि, आस्तामेकत्र देशकालावस्थापेक्षया समस्तेष्वपि देवातिथिमातापितृप्रभृतिषु मार्गानुसारिताभिमुखत्वेन, मयूरशिशुदृष्टान्ताद्, अपुनर्बन्धक: - उक्तनिर्वचनो जीवः, इत्येवंविधक्रियालिङ्गो भवति, इति गाथार्थः ॥ ४॥ (पञ्चा०प्र०पं० ३ श्लो०-४) 16/8 [76] इदानीमभेदनयाश्रयेणात्मनो रत्नत्रयेणैकत्वमाह
--
आत्मैव दर्शन - ज्ञान - चारित्राण्यथवा यतेः । यत्तदात्मक एवैष, शरीरमधितिष्ठति ॥१ ॥
अथवेति भेदनयापेक्षया प्रकारान्तरस्याभेदनयस्य प्रकाशनार्थम् । आत्मैव, न ततो भिन्नानि दर्शन - ज्ञान - चारित्राणि । यतेरिति संबन्धिपदम् । अत्रोपपत्तिमाहयद्यस्मात् तदात्मक एव दर्शन - ज्ञान - चारित्रात्मक एव तदभेदमापन्न एवैष आत्मा शरीरमधितिष्ठति । आत्मभिन्नानां हि दर्शनादीनां नात्मनि मुक्त्तिहेतुत्वं स्यात्, देवदत्तसम्बन्धिनामिव यज्ञदत्ते ॥१॥
आत्मानमात्मना वेत्ति, मोहत्यागाद्य आत्मनि ।
तदेव तस्य चारित्रम्, तज्ज्ञानं तच्च दर्शनम् ॥२॥
आत्मानं कर्मतापन्नमात्मन्याधारभूते आत्मना स्वयमेव यो वेत्ति - जानीते । एतच्च ज्ञानं न मूढानां भवतीत्याह- मोहत्यागात् । तदेवात्मज्ञानमेव तस्यात्मनश्चारित्रम्, अनास्त्रवरूपत्वात् । तज्ज्ञानं तदेव ज्ञानम्, बोधरूपत्वात् । तच्च दर्शनम् -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org