________________
ज्ञानं-मत्यादि सविपर्यासं-मत्यज्ञानादित्रयानुगतं नैगमादयस्त्रयः श्रयन्तिअभ्युपगच्छन्ति आदित-आदेरारभ्य नया:-वस्त्वंशग्राहिणः सर्वम्-अष्टविधम् । कस्य पुनर्ज्ञानं कस्य च विपर्यासो भवतीत्येतदाह-सम्यग्दृष्टेः-अर्हदभिहिततत्त्वश्रद्धायिनः यदिन्द्रियजमनिन्द्रियजं च तत् सर्वं ज्ञानम्, मिथ्यादृष्टेः सर्वमेव विपर्यासः ॥२॥
ऋजुसूत्र उक्तस्वरूपः षट्-मतिमत्यज्ञानरहितानि श्रुतादीनि श्रयते, मतिं तु सविपर्यासां न श्रयते, अ(य)तः श्रुतस्य ग्रन्थारूषितस्य उपग्रहत्वात्-उपकारकत्वाद् उक्तेन विधिना, ततश्च श्रुतादनन्या मतिरतोऽनन्यत्वान्नाश्रयते । शब्दस्तु श्रुतज्ञानकेवलज्ञाने श्रयते, नान्यत्, किं कारणम् ? श्रुताङ्गत्वात् श्रुतस्य प्रतिविशिष्टबलाधानहेतुत्वादुक्तेन विधिना, शब्द एव नयः ॥३॥
मिथ्यादृष्ट्यज्ञाने, मिथ्यादृष्टम् अज्ञानं च अपरिच्छेदात्मकं न श्रयते, किं कारणम् ? यतो नास्य कश्चिदज्ञोऽस्ति नास्त्यस्य कश्चिदशः शब्दस्य मतेन कश्चित् प्राणी। किं कारणमिति चेत् ? उच्यते-ज्ञस्वाभाव्यात् सर्वप्राणिनां ज्ञातृस्वरूपत्वाज्जीवो मिथ्यादृष्टिर्नास्ति न चाप्यज्ञोऽस्ति ॥४॥
___ इति-एवमनेनोक्तेन स्वरूपेण नयवादा: नैगमादिविचाराः चित्राः बहुरूपाः, विचित्रैः प्रकारैर्वस्तुनः परिच्छेदित्वात्, ते चित्राः क्वचिद् विरुद्धाः क्वचिद् वस्त्वंशे रुचिगृहीते विरुद्धा इव लक्ष्यन्ते, यतः सामान्ये आश्रिते यस्तत्रैव विशेष कल्पयति तदा पूर्वापरेण विरुध्यते, विशेषे वा त्रैकालिकेऽभ्युपेते वर्तमानावधिके विशेष आश्रिते पूर्वः परेण विरुद्ध इति लक्ष्यते, एवं सर्वेष्वायोजनीयम् । एवं क्वचिद् विरुद्धा इव । अथवा सम्यगालोच्यमानाः विशुद्धाः, सामान्यादीनां धर्माणां सर्वेषां तत्र वस्तुनि भावात् । अथैवमेव लौकिकानामपि वैशेषिकादीनां वस्तुविचारणायां सम्पतन्त्युत नेति ? उच्यते-न सम्पतन्ति, यदि सम्पतेयुजैनशासनवत् तान्यपि निरवद्यानि मतानि स्युः, नैव तत् तथा, एतदाह-लौकिकविषयातीताः लौकिकानां-वैशेषिकादीनां विषया:शास्त्राणि तान्यतीता:-अतिक्रान्ताः, न सन्ति तेष्वित्यर्थः ॥ अथ यथा ते वैशेषिकादयो नालोचयन्त्येभिर्वस्तु तथाऽत्रापि किमाश्रयते उत नेति ? उच्यते-न तथा नालोचनीयं वस्तु, किन्त्वालोचनीयमेवेति, एतदाह-तत्त्वज्ञानार्थमधिगम्याः तत्त्वं-सद्रूपं सर्वदोषरहितं यज्ज्ञानं तत् तत्त्वज्ञानं तत्त्वज्ञानाय-तत्त्वज्ञानार्थ-तत्त्वज्ञानप्रयोजनार्थम् अधिगम्याः ज्ञेयाः एतत् कथयति-समस्तनयसामग्र्या आलोच्यमानं वस्तु सुधियां प्रीतिमाधिनोति, अन्यथा यथावस्तु संवादो दुःखेनापाद्येत, यत एकनयमतावलम्बिनां वस्तुस्वरूपसम्पादने सामर्थ्याभावात् समग्रया नयविचारणया वस्तुस्वरूपप्रतिपादनं सुकरमवगतस्याद्वादसद्भावैरिति ॥५॥३५॥ (तत्त्वा० स्वो० भा० टी० अ०५, सू०३५) 163.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org