________________
८६
सङ्ग्रहस्य स्मरणकारिकामाहभा०-यत् सङ्ग्रहीतवचनम्, सामान्ये देशतोऽथ च विशेषे । तत् सङ्ग्रहनयनियतम्, ज्ञानं विद्यान्नयविधिज्ञः ॥२॥
टी०-यत् सङ्ग्रहीतेत्यादि । यदिति ज्ञानं सम्बध्यते, कीदृशं तदिति ? तत् सगृहीतवचनं सगृहीतं-सामान्यं वचनम् उच्यते तदिति वचनम्, ज्ञेयमित्यर्थः । सगृहीतं वचनं यस्मिन् ज्ञाने, सामान्यं ज्ञेयं यस्य ज्ञानस्येत्यर्थः, तज्ज्ञानं सङ्ग्रहीतवचनम्, तत् पुनरेवं ज्ञानं प्रवर्तते-सामान्ये-सत्तायां देश इति सामान्यविशेषे गोत्वादिके, अथ चेति अथवा विशेषे खण्डमुण्डादिके । एतेषु सर्वेषु सम्पिण्डनारूपेण प्रवर्तते यतः सामान्यं विशेषो वा, न सत्तामन्तरेण कश्चिदस्तीत्येवं सम्पिण्ड्य यत् सत्तायां प्रक्षिपत् प्रवर्तते ज्ञानं तत् सङ्ग्रहनयनियतं तज्ज्ञानं सङ्ग्रहस्य नयस्य निश्चितमेवंस्वरूपं विद्यात्-जानीयात् नयविधिज्ञ इति नयभेदज्ञः ॥२॥
व्यवहाराभिप्रायानुस्मरणायाहभा०-समुदायव्यक्त्याकृति-सत्तासंज्ञादिनिश्चयापेक्षम् । लोकोपचारनियतम्, व्यवहारं विस्तृतं विद्यात् ॥३॥
टी०-समुदायेत्यादि । समुदाय:-सङ्घातः व्यक्ति:-मनुष्य इति आकृति:संस्थानमवयवानां सत्ता-महासामान्यं संज्ञादयो-नामस्थापनाद्रव्यभावाः एषां समुदायादीनां निश्चयो विशेषस्तमपेक्षते-अभ्युपैति यः स-समुदायव्यक्त्याकृतिसत्तासंज्ञादिनिश्चयापेक्षः । कथं निश्चयमेवापेक्षते न समुदायादीनीति ? उच्यते-नहि समुदायस्त्रैलोक्यादिरूपः समुदायिनोऽन्तरेण कश्चिदप्यस्ति, न च व्यक्तिः सामान्यविशेषरूपा मनुष्य इत्यादिका मनुष्यानन्तरेणास्ति, न चाकार आकारवन्तमन्तरेणास्ति, न वा सत्ता सत्तावन्तमन्तरेणास्ति, न वा नामादयो नम्यमानादीनन्तरेण केचन सम्भवन्ति, अनुपलभ्यमानत्वाद् व्यवहाराकरणादित्यर्थः विशेषस्तु स्वप्रत्यक्ष इति, तस्मात् स एव सत्य इत्येवं समुदायादिनिश्चयापेक्षस्तं विद्यादिति सम्बन्धः । लोकोपचारनियतमिति । लोके उपचार: गिरिदात इत्यादिकः, तस्मिन् लोकोपचारे नियतं-निष्पन्नं व्यवहारनयं विस्तृतमिति उपचरितानुपचरितार्थाश्रयणाद् विस्तीर्णमित्यर्थः, विद्याद्-अवबुध्येत ॥३॥
ऋजुसूत्रस्वभावमाहभा०-साम्प्रतविषयग्राहकमजुसूत्रनयं समासतो विद्याद । विद्याद् यथार्थशब्दम्, विशेषितपदं तु शब्दनयम् ॥४॥ इति ॥ टी०-साम्प्रतेत्यादि, साम्प्रतो-वर्तमानः विषयो-ज्ञेयस्तस्य ग्राहकम्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org