________________
[71][सर्वेषामपि नयानामन्योन्याऽनिश्रितत्वे मिथ्यात्वम् अन्योन्यनिश्रितत्वे पुनः सम्यक्त्वमिति प्रतिपादनम्]
तदेवमेकान्ताभ्युपगमे बन्धहेत्वाद्यनुपपत्तेरैहिकाऽऽमुष्मिकसर्वव्यवहारविलोप इत्येकान्तव्यवस्थापकाः सर्वेऽपि मिथ्यादृष्टयो नयाः अन्योन्यविषयाऽपरित्यागवृत्तयस्तु त एव सम्यक्त्वं प्रतिपद्यन्त इत्युपसंहरन्नाह -
तम्हा सव्वे वि णया, मिच्छादिट्टी सपक्खपडिबद्धा । अण्णोण्णणिस्सिआ उण, हवंति सम्मत्तसब्भावा ॥२१॥
यस्माद् एकान्तनित्याऽनित्यवस्त्वभ्युपगमो बन्धादिकारणयोगकषायाभ्युपगमबाधितः तदभ्युपगमोऽपि नित्याद्येकान्ताभ्युपगमप्रतिहतः इत्येवंभूतपूर्वोत्तराभ्युपगमस्वरूपाः तस्माद् मिथ्यादृष्टयः सर्वेऽपि नयाः स्वपक्षप्रतिबद्धाः स्व
आत्मीयः पक्षः अभ्युपगमस्तेन प्रतिबद्धाः प्रतिहता यतस्तत इति । नयज्ञानानां च मिथ्यात्वे तद्विषयस्य तदभिधानस्य च मिथ्यात्वमेव । तेनैवं प्रयोगः-मिथ्या सर्वनयवादाः, स्वपक्षेणैव प्रतिहतत्वात् चौरवाक्यवत् । अथ तेषां प्रत्येकं मिथ्यात्वे बन्धाद्यनुपपत्तौ सम्यक्त्वानुपपत्तिः सर्वत्रेत्याह-अन्योन्यनिश्रिताः परस्परापरित्यागेन व्यवस्थिताः पुनर् इति त एव सम्यक्त्वस्य यथावस्थितवस्तुप्रत्ययस्य सद्भावा भवन्तीति न बन्धाद्यनुपपत्तिः ।
ननु यदि नया: प्रत्येकं सन्ति कथं प्रत्येकावस्थायां तेषां सम्यक्त्वाभावः स्वरूपव्यतिरेकेण अपरसम्यक्त्वाभावात् तस्य च तेष्वभ्युपगमात् ? अथ न सन्ति, कथं तेषां समुदायः सम्यक्त्वनिबन्धनो भवेत् असतां समुदायानुपपत्तेः ? न च असतोऽपि सम्यक्त्वम् नयवादेष्वपि सम्यक्त्वप्रसक्तेः । न च प्रत्येकं तेषां सतामसम्यक्त्वेऽपि तत्समुदाये सम्यक्त्वं भविष्यति 'दव्वट्टिओ त्ति तम्हा नत्थि णओ इत्याधुपसंहारसूत्रविरोधात् । न च प्रत्येकमेकैकांशग्राहिणः सम्पूर्णवस्तुग्राहकाः समुदिता इति सम्यग्व्यपदेशमासादयन्ति, तत्तत्स्वगोचरापरित्यागेन तत्रापि विषयान्तरे तेषामप्रवृत्तेः । न च प्रत्येकमसम्यक्त्वे समुदायेऽपि सम्यक्त्वं युक्तम् सिकतासु तैलवत्, असतः सदुत्पत्तेः सतो वा असदुत्पत्तेविरोधाच्च । ____अत्राभिधीयते-प्रत्येकमप्यपेक्षितेतरांशस्वविषयग्राहकतयैव सन्तो नयाः तद्व्यतिरिक्तरूपतया त्वसन्त इति सतां तत्समुदाये सम्यक्त्वे न कश्चिद् दोषः, नन्वितरेतरविषयाऽपरित्यागवृत्तीनां ज्ञानानां कथं समुदायः सम्भवी येन तत्र सम्यक्त्वमभ्युपगम्येत ? अनुक्तोपालम्भ एषः, न ह्येकदाऽनेकज्ञानोत्पादस्तेषां समुदायो विवक्षितः अपि त्वपरित्यक्तेतररूपविषयाध्यवसाय एव समुदायः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org