________________
६३
सम्यग्दर्शनं ते न जानन्ति । न हि यथावस्थितवस्तुतत्त्वावबोधमन्तरेण तद्रुचि:, न च स्वसमयपरसमयतात्पर्यार्थानवगमे तदवबोधः बोटिकादेरिव सम्भवी । अथ जीवादिद्रव्यपर्यायार्थाऽपरिज्ञानेऽपि यदर्हद्भिरुक्तं तदैवेकं सत्यम्' इत्येतावतैव सम्यग्दर्शनसद्भावः । मण्णइ तमेव सच्चं णिस्संकं जं जिणेहिं पण्णत्तं (द्रष्टव्यम् आचाराङ्गे-५-५-१६२ ) इत्याद्यागमप्रामाण्यात् । न स्वसमय - परसमयपरमार्थानभिज्ञैर्निरावरणज्ञानदर्शनात्मकजिनस्वरूपाज्ञानवद्भिः तदभिहितभावानां सामान्यरूपतयाप्यन्यव्यवच्छेदेन सत्यस्वरूपत्वेन ज्ञातुमशक्यत्वात् । नन्वेवमागमविरोधः सामायिकमात्रपदविदो माषतुषादेर्यथोक्तचारित्रिणस्तत्र मुक्तिप्रतिपादनात् सकलशास्त्रार्थज्ञताविकलव्रतस्य व्रताद्याचरणनैरर्थक्यापत्तिश्च तत्साध्यफलानवाप्तेः । न च यथोपवर्णितचरणकरणे सम्यग्दर्शनवैकल्ये भवतः, ज्ञानादित्रितस्यापि तत्र पाठात् । न ये यथोदितचरणकरणप्ररूपणासेवनद्वारेण प्रधानादाचार्यात् स्वसमय-परसमयमुक्तव्यापारा न भवन्ति इति नञोऽत्र सम्बन्धात्, ते चरणकरणस्य सारं निश्चयशुद्धं जानन्त्येव, गुर्वाज्ञया प्रवृत्तेः चरणगुणस्थितस्य साधोः सर्वविशुद्धतयाभ्युपगमात् । तं सव्वणयविशुद्धं जं चरणगुणट्ठिओ साहू (आ०नि०गा० १०५५) इत्याद्यागमप्रामाण्यात् । अगीतार्थस्य तु स्वतन्त्रचरणकरणप्रवृत्तेः व्रताद्यनुष्ठानस्य वैफल्यमभ्युपगम्यत एव - गीयत्थो य विहारो बीओ गीयत्थमीसओ भणिओ (ओ० नि० १२१) इत्याद्यागमप्रामाण्यात् ॥६७॥ ( सन्म० - कां० ३. गा० ६७ ) 14/7
[65] पुनरपि चारित्रमधिकृत्याहारविषयानाचाराचारौ प्रतिपादयितुकाम आहअहाकम्पाणि भुंजंति, अण्णमण्णे सकम्मुणा । उवलित्तेति जाणिज्जा, अणुवलित्तेति वा पुणो ॥ ८ ॥
साधुं प्रधानकारणमाधाय - आश्रित्य कर्माण्याधाकर्माणि तानि च वस्त्रभोजनवसत्यादीन्युच्यन्ते, एतान्याधाकर्माणि ये भुञ्जन्ते - एतैरुपभोगं ये कुर्वन्ति, 'अन्योऽऽन्यं' परस्परं तान् स्वकीयेन कर्मणोपलिप्तान् विजानीयादित्येवं नो वदेत्, तथाऽनुपलिप्तानिति वा नो वदेत्, एतदुक्तं भवति - आधाकर्मापि श्रुतोपदेशेन शुद्धमितिकृत्वा भुञ्जानः कर्मणा नोपलिप्यते, तदाधाकर्मोपभोगेनावश्यतया कर्मबन्धो भवतीत्येवं नो वदेत्, तथा श्रुतोपदेशमन्तरेणाहारगृद्ध्याधाकर्म भुञ्जानस्य तन्निमित्तकर्मबन्धसद्भावात् अतोऽनुलिप्तानपि नो वदेत्, यथावस्थितमौनीन्द्रागमज्ञस्य त्वेवं युज्यते वक्तुम् आधाकर्मोपभोगेन स्यात्कर्मबन्धः स्यान्नेति यत उक्तम्-किञ्चिच्छुद्धं कल्प्यमकल्प्यं वा स्यादकल्प्यमपि कल्प्यम् । पिण्डः शय्या वस्त्रं पात्रं वा भेषजाद्यं वा ॥ तथान्यैरप्यभिहितम् - उत्पद्येत हि साऽवस्था, देशकालामयान् प्रति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org