________________
मा
.
सुहमनिगोयाइखणऽप्पजोग बायरयविगलअमणमणा । अपज्जलहु पढमदुगुरु, पज्जहस्सियरो असंखगुणो ॥५३॥ इह योगो वीर्य स्थाम इत्यादि पर्यायाः । तथा चाहजोगो विरियं थामो, उच्छाह प्ररक्कमो तहा चिट्ठा ।। सत्ती सामत्थं चिय, जोगस्स हवन्ति पज्जाया ॥ (पञ्चसं० गा० ३९६) स च योगस्त्रिधा-मनोयोगो वाग्योगः काययोगश्चेति । उक्तं च कर्मप्रकृतौपरिणामाऽऽलम्बण-गहणसाहणं तेण लद्धनामतिगं । कज्जब्भासाऽन्नुन्नप्पवेसविसमीकयपएसं ॥ (गा० ४)
अस्य अक्षरगमनिका-परिणमनं परिणामः, अन्तर्भूतणिगर्थाद् घञ्प्रत्ययः, परिणामापादनमित्यर्थः, आलम्ब्यत इत्यालम्बनं भावेऽनट्प्रत्ययः, गृहीतिर्ग्रहणम्, तेषां साधनं-साध्यतेऽनेनेति साधनं-योगसंज्ञं वीर्यं “करणाधारे" (सिद्ध० ५-३१२९) इत्यनट्प्रत्ययः । तथाहि-'तेन' वीर्यविशेषेण योगसंज्ञितेनौदारिकादिशरीरप्रायोग्यान् पुद्गलान् प्रथमतो गृह्णाति, गृहीत्वा च प्राणाऽपानादिरूपतया परिणमयति, परिणमय्य च तन्निसर्गहेतुसामर्थ्यविशेषसिद्धये तानेव पुद्गलानवलम्बते, यथा मन्दशक्तिः कश्चिन्नगरे परिभ्रमणाय यष्टिमवलम्बते, ततस्तदवष्टम्भतो जातसामर्थ्यविशेषः सन् तान् प्राणाऽपानादिपुद्गलान् विसृजतीति परिणामाऽऽलम्बनग्रहणसाधनं वीर्यम् । तेन च वीर्येण योगसंज्ञकेन मनोवाक्कायावष्टम्भतो जायमानेन "लद्धनामतिगं"ति लब्धं नामत्रिकं मनोयोगो वाग्योगः काययोग इति । तत्र मनसा करणभूतेन योगो मनोयोगः, वाचा योगो वाग्योगः, कायेन योगः काययोगः । स्यादेतत्-सर्वेषु जीवप्रदेशेषु तुल्यक्षायोपशमिक्यादिलब्धिभावेऽपि किमिति क्वचित् स्तोकं क्वचित् प्रभूतं क्वचित् स्तोकतरमित्येवंवैषम्येण वीर्यमुपलभ्यते ? इत्यत आह-"कज्ज" इत्यादि । यदर्थं चेष्टते तत् कार्यं तस्याभ्याश:-अभ्यशनमभ्याशः "अशूट व्याप्तौ" इत्यस्याभिपूर्वस्य घजन्तस्य प्रयोगः, कार्याभ्याशः-कार्यास्यासन्नता निकटीभवनमित्यर्थः, तथा जीवप्रदेशानामन्योऽन्यं-परस्परं प्रवेशःशृङ्खलावयवानामिव परस्परं सम्बन्धविशेषः, ताभ्यां कृत्वा विषमीकृताःसुप्रभूताऽल्पाऽल्पतरसद्भावतो विसंस्थूलीकृताः प्रदेशा येन वीर्येण तत् कार्याभ्याशाऽन्योन्यप्रवेशविषमीकृतप्रदेशम् । तथाहि-येषामात्मप्रदेशानां हस्तादिगतानामुत्पाट्यमानघटादिलक्षणकार्यनैकट्यं तेषां प्रभूततरा चेष्टा, दूरस्थानानामसादिगतानां स्वल्पा, दूरतरस्थानां तु पादादिगतानां स्वल्पतरा, अनुभवसिद्धं चैतत्, अपि च
२२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org