________________
सांप्रतम् (४) अन्तरप्ररूपणामाह-'एत्तो अणंतरा नत्थि' इतः पूर्वोक्तस्पधकगतचरमवर्गणायाः परतो जीवप्रदेशा अनन्तरा न सन्ति । किमुक्तं भवति? इत ऊर्ध्वमेकैकवीर्याविभागवृद्ध्या निरन्तरं वर्धमाना जीवप्रदेशा न लभ्यन्ते, किन्तु सान्तरा एव । तथाहि-पूर्वोक्तस्पर्धकमतचरमवर्गणायाः परतो जीवप्रदेशा नैकेन वीर्याविभागेनाधिकाः प्राप्यन्ते, नापि द्वाभ्याम, नापि त्रिभिः, नापि चतुर्भिः, यावन्नापि संख्येयैः, किन्त्वसंख्येयैरेवासंख्येयलोकाकाशप्रदेशप्रमाणैरभ्यधिकाः प्राप्यन्ते । ततस्तेषां समुदायो द्वितीयस्य स्पर्धकस्य प्रथमा वर्गणा । 'तो बीयाई य पुव्वसम त्ति' ततो द्वितीयस्पर्धकप्रथमवर्गणातः परतो द्वितीयादयो वर्गणाः पूर्वसमाः पूर्वस्पर्धकस्येव वक्तव्या इत्यर्थः । तथाहि-प्रथमवर्गणाया परतो जीवप्रदेशानामेकेन वीर्याविभागेनाधिकानां समुदायो द्वितीया वर्गणा । द्वाभ्यां वीर्याविभागाभ्यामधिकानां समुदायस्तृतीया वर्गष्पा । एवं तावद्वाच्यं यावत् श्रेण्यसंख्येयभागगतप्रदेशराशिप्रमाणा वर्गणा भवन्ति, तासां च समुदायो द्वितीयं स्पर्धकम् । ततः परं पुनरप्येकेन वीर्याविभागेनाधिका जीवप्रदेशा न लभ्यन्ते, नापि द्वाभ्याम्, नापि त्रिभिः, यावन्नापि संख्येयः, किन्त्वसंख्येयैरेवा-संख्येयलोकाकाशप्रदेशप्रमाणैरभ्यधिकाः प्राप्यन्ते, ततस्तेषां समुदायस्तृतीयस्य स्पर्धकस्य प्रथमा वर्गणा । तत एकैकवीर्याविभागवृद्ध्या द्वितीयादयो वर्गणास्तावद्वाच्या यावच्छ्रेण्यसंख्येयभागगतप्रदेशराशिप्रमाणा भवन्ति, तासां च समुदाय-स्तृतीयं स्पर्धकम् । एवमसंख्येयानि स्पर्धकानि वाच्यानीति ॥८॥
तदेवं कृताऽन्तरप्ररूपणा, संप्रति (५) स्थानप्ररूपणां करोतिसेढिअसंखिअमेत्ताई, फड्डगाइं जहन्नयं हाणं । फड्डगपरिवुड्डिअओ, अंगुलभागो असंखतमो ॥९॥
सेढीति-इह पूर्वोक्तानि स्पर्धकानि श्रेण्यसंख्येयभागगतप्रदेशराशिप्रमाणानि जघन्यं योगस्थानं भवन्ति । एतच्च सूक्ष्मनिगोदस्य सर्वाल्पवीर्यस्य भवप्रथमसमये वर्तमानस्य प्राप्यते । ततोऽन्यस्य जीवस्याधिकतरवीर्यस्य येऽल्पतरवीर्या जीवप्रदेशास्तेषां समुदायः प्रथमा वर्गणा । तत एकेन वीर्याविभागेन वृद्धानां समुदायो द्वितीया वर्गणा । द्वाभ्यां वीर्याविभागाभ्यामधिकानां समुदायस्तृतीया वर्गणा । त्रिभिवीर्याविभागैरधिकानां समुदायश्चतुर्थी वर्गणा । एवं तावद्वाच्यं यावच्छेण्यसंख्येयभागगतप्रदेशराशिप्रमाणा भवन्ति । तासां समुदायः प्रथमं स्पर्धकम् । ततः प्राक्तनयोगस्थानप्रदर्शितप्रकारेण द्वितीयादीन्यपि स्पर्धकानि वाच्यानि । तानि च तावद्वाच्यानि यावच्छेण्यसंख्येयभागगतप्रदेशराशिप्रमाणानि भवन्ति, ततस्तेषां समुदायो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org