________________
यः श्रुतेन केवलं शुद्धमात्मानं जानाति स श्रुतकेक्लीति तावत्परमार्थो यः श्रुतज्ञानं सर्वं जानाति स श्रुतकेवलीति तु व्यवहारः । तदत्र सर्वमेव तावत् ज्ञानं निरूप्यमाणं किमात्मा किमनात्मा ? न ताक्दनात्मा समस्तस्याप्यनात्मनश्चेतनेतरपदार्थपञ्चतयस्य ज्ञानतादात्म्यानुपपत्तेः । ततो गत्यन्तराभावात् ज्ञानमात्मेत्यायात्यतः श्रुतज्ञानमप्यात्मैव स्यात् । एवं सति य आत्मानं जानाति स श्रुतकेवलीत्यायाति स तु परमार्थ एव । एवं ज्ञानज्ञानिनौ भेदेन व्यपदिशता व्यवहारेणापि परमार्थमात्रमेव प्रतिपाद्यते न किञ्चिदप्यतिरिक्तम् । अथ च यः श्रुतेन केक्लं शुद्धमात्मानं जानाति स श्रुतकेवलीति परमार्थस्य प्रतिपादयितुमशक्यत्वाद्यः श्रुतज्ञानं सर्वं जानाति स श्रुतकेवलीति व्यवहारः परमार्थप्रतिपादकत्वेनात्मानं प्रतिष्ठापयति ॥९-१०॥
अथ पूर्वगाथायां भणितं व्यवहारेण परमार्थो ज्ञायते ततस्तमेवार्थ कथयतिजो-यः कर्ता हि स्फुटं सुदेण-भावश्रुतेन स्वसंवेदनज्ञानेन निर्विकल्पसमाधिना करणभूतेन अभिगृच्छदि अभि-समन्ताज्जानात्यनुभवति । कम् ? अप्पाणंआत्मानम्, इणं इमं प्रत्यक्षीभूतं तु-पुनः । किविशिष्टम् । केवलम्-असहायंसुद्धम्- रागादिरहितं तं पुरुष सुदकेवलि-निश्चयश्रुतकेवलिनम् इसिणोपरमऋषयः भणंति-कथयन्ति लोगप्पदीवयरा-लोकप्रदीपकराः लोकप्रकाशका इति। अनया माथया निश्चयश्रुतकेवलिलक्षणमुक्तम् । अथ 'सुदणाण'मित्यादि-जो-य: कर्ता सुदणाणं-द्वादशाङ्गं द्रव्यश्रुतं सव्वं-सर्वं परिपूर्णं जाणादि-जानाति, सुदकेवलिव्यवहारश्रुतकेवलिनं तमाहु जिणा-तं पुरुषम् आहुः-ब्रुवन्ति । के ते । जिना:सर्वज्ञाः । कस्मादिति चेत् । जम्हा यस्मात्कारणात् सुदणाणं-द्रव्यश्रुताधारेणोत्पन्नं भावश्रुतज्ञानम्, आदा-आत्मा भवति । कथंभूतं सव्वं-सर्व्वमात्मसंवित्तिविषयं परपरिच्छित्तिविषयं वा तम्हा-तस्मात् कारणात्, सुदकेवली-द्रव्यश्रुतकेवली स भवतीति । अयमत्रार्थः यो भावश्रुतरूपेण स्वसंवेदनज्ञानबलेन शुद्धात्मानं जानाति स निश्चयश्रुतकेवली भवति । यस्तु स्वशुद्धात्मानं न संवेदयति न भावयति बहिर्विषयं द्रव्यश्रुतार्थं जानाति स व्यवहार श्रुतकेवली भवतीति । । ननु तर्हि स्वसंवेदनज्ञानबलेनास्मिन्कालेऽपि श्रुतकेवली भवति ? तन्न यादृशं पूर्वपुरूषाणां शुक्लध्यानरूपं स्वसंवेदनज्ञानं तादृशमिदानीं नास्ति किन्तु धर्म्यध्यानयोग्यमस्तीत्यर्थः । एवं निश्चयव्यवहारश्रुतकेवलिव्याख्यानरूपेण गाथाद्वयेन तृतीयं स्थलं गतम् ॥९-१०॥ (समयप्रा० गा० ९-१०) 13/2 .. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org