________________
३७
व्याख्या–‘भणन्तः’-प्रतिपादयन्तः प्रक्रमात् ज्ञानमेव मुक्त्यङ्गमिति, 'अकुर्वन्तश्च' मुक्त्युपायानुष्ठानम्, बन्धमोक्षौ - उक्तरूपौ तयोः प्रतिज्ञा - अभ्युपगमः तद्वन्तः, सूत्रत्वाच्चेना निर्देश अस्ति बन्धोऽस्ति च मोक्ष इत्येवंवादिन एव केवलं न तु तथाऽनुष्ठायिनः वाचि वीर्यम् आत्मशक्तिर्वाग्वीर्यं वाचालतेति यावत्, तदेवानुष्ठानशून्यं वाग्वीर्यमात्रं तेन 'समाश्वासयन्ति' विज्ञानादेव वयं मुक्तिगामिन इति स्वास्थ्यं प्रापयन्ति, कम् ? आत्मानमिति सूत्रार्थः ॥ (उत्तरा० अ०६ गा०१०) 11/3 यथा चैतन्न चारु तथा स्वत एवाह
न चित्ता तायए भासा, कओ विज्जाणुसासणं ? | विसण्णा पावकम्मेहिं, बाला पंडियमाणिणो ॥ ११ ॥
व्याख्या–'न'-नैव 'चित्रा' - प्राकृतसंस्कृतादिरूपा आर्यविषयं ज्ञानमेव मुक्त्यङ्गमित्यादिका वा 'त्रायते' - रक्षति, पापेभ्य इति गम्यते, केत्याह- भाष्यत इति भाषा-वचनात्मिका, स्यादेतत्- अचिन्त्यो हि मणिमन्त्रमहौषधीनां प्रभाव इत्यघोरादिमन्त्रात्मिका वाक् त्राणाय भविष्यतीत्याह - कुतो ? विदन्त्यनया तत्त्वमिति विद्या - विचित्रमन्त्रात्मिका तस्या अनुशासनं - शिक्षणं विद्यानुशासनं त्रायते पापाद्भयाद्वा ? न कुतोऽपि तन्मात्रादेव मुक्तौ शेषानुष्ठानवैयर्थ्यप्रसङ्गादिति भावः । अत एव ये तदपि त्राणायेति वदन्ति ते यादृशास्तदेवाह - विविधम् - अनेकप्रकारं सन्नामग्ना विषण्णाः, केषु ? 'पावकम्मेहिं' ति पापकर्म्मसु पापहेतुषु हिंसाद्यनुष्ठानेषु, सततं तत्कारितयेति भाव:, यद्वा विषण्णा - विषादं गताः, पापकर्मभिः-पापानुष्ठानैः यथा कथमेवमनुष्ठायिनो वयं भविष्याम इति । पठन्ति च विसन्ना पावकिच्चेहिं ति तथैव कुतस्त एवंविधा इत्याह- बाला - रागद्वेषाकुलिताः पण्डितमात्मानं मन्यन्ते इत्येवंशीलाः पण्डितमानिनः । ये हि बालाः पण्डितमानिनश्च न स्युस्ते स्वयं सम्यगजानानाः परं पृच्छेयुस्तदुपदेशतश्च तानि परिहरेयुः न तु विषण्णा एवासीरन् । ये तु बालाः पण्डितमानिनश्च ते स्वयमजानाना अपि जानानमन्यमात्मन्यभिमानतोऽनुपासमाना एवंविधा एव भवन्तीति सूत्रार्थः || उत्तरा० अ०६ गा०११ ) 11/3
[40] से वंता कोहं च माणं च मायं च लोभं च एवं पासगस्स दंसणं उवरयसत्थस्स पलियंतकरस्स आयाणं सगडब्धि ॥ सू० १२१ ॥
वृ० स - ज्ञानादिसहितो दुःखमात्रास्पृष्टोऽव्याकुलितमतिर्द्रव्यभूतो लोकालोकप्रपञ्चात् मुक्तदेश्यः स्वपरापकारिणं क्रोधं च वमिता 'टुवम् उद्गिरणे इत्यस्मात् ताच्छीलिकस्तृन् तद्योगे च षष्ठ्याः प्रतिषेधे क्रोधशब्दाद् द्वितीया लुडन्तं वैतत्, यो हि यथोक्तसंयमानुष्ठायी सोऽचिरात् क्रोधं वमिष्यति, एवमुत्तरत्रापि यथासम्भवमा
૨૧
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org