SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ २१ 'अणुभागाणेत्यादि' अशुभानां प्रकृ तीनां यदनुभागसत्कर्म तस्यानन्ततमं भागं मुक्त्वा शेषाननन्ताननुभागभागान् अन्तर्मुहूर्तेन कालेनाशेषानपि विनाशयति । ततः पुनरपि तस्य प्राग्मुक्तस्यानन्ततमस्यानन्ततमं भागं मुक्त्वा शेषान् अनुभागभागान् अन्तर्मुहूर्तेन कालेन विनाशयति । एवमनेकान्यनुभागखण्डसहस्राणि एकस्मिन् स्थितिखण्डे व्यतिक्रामन्ति । तेषां च स्थितिखण्डानां सहस्रैद्वितीयमपूर्वकरणं परिसमाप्यते । संप्रति स्थितिबन्धाद्धा भण्यते - अपूर्वकरणस्य प्रथमसमयेऽन्य एवापूर्वः पल्योपमसंख्येयभागहीनः स्थितिबन्ध आरभ्यते । स्थितिघातस्थितिबन्धौ युगपदेवारभ्येते, युगपदेव च निष्ठां यातः ॥ १३-१४ ॥ ( कर्मप्र० उप०क० गा० ११-१४) 5/6 [19] अधुना गुणश्रेणिस्वरूपमाह गुणसेढी निक्खेवो, समये समये असंखगुणणाए । अद्धादुगाइरित्तो, सेसे सेसे य निक्खेवो ॥१५॥ I गुणसेढि त्ति-यत्स्थितिकण्डकं घातयति तन्मध्याद्दलिकं गृहीत्वा उदयसमयादारभ्य प्रतिसमयमसंख्येयगुणनया निक्षिपति । तद्यथा - उदयसमये स्तोकम् । द्वितीयसमयेऽसंख्येयगुणम् । ततोऽपि तृतीयसमयेऽसंख्येयगुणम् । एवं तावद्वक्तव्यं यावदन्तर्मुहूर्तचरमसमयः । तच्चान्तर्मुहूर्तमपूर्वकरणानिवृत्तिकरणकालात् मनागतिरिक्तं वेदितव्यम् । अक्षरयोजना त्वियं गुणश्रेण्यां निक्षेपः समये समयेऽसंख्येयगुणनया पूर्वपूर्वसमयापेक्षया उत्तरोत्तरसमये वृद्ध्यात्मकया । सोऽपि च निक्षेपोऽद्धाद्विकातिरिक्तः अपूर्वकरणानिवृत्तिकरणकालमभ्यधिकः । एष प्रथमसमयगृहीतदलिकनिक्षेपविधिः । एवं द्वितीयादिसमयगृहीतानामपि दलिकानां निक्षेपविधिर्द्रष्टव्यः । अन्यच्च गुणश्रेणिरचनाय प्रथमसमये दलिकं यद् गृह्यते तत्स्तोकम् । द्वितीयसमयेऽसंख्येयगुणम् । ततोऽपि तृतीयसमयेऽसंख्येयगुणम्, एवं तावद्वाच्यं यावद् गुणश्रेणिकरणचरमसमयः । तथाऽपूर्वकरणसमयेषु अनिवृत्तिकरणसमयेषु चानुभवतः क्रमशः क्षीयमाणेषु सत्सु गुणश्रेणिदलिकनिक्षेपः शेषे शेषे भवति, उपरि च न वर्धते (क० २ ) ॥१५॥ संप्रत्यनिवृत्तिकरणस्वरूपमाह ૨૦ अनियट्टिम्म वि एवं, तुल्ले काले समा तओ नामं । संखिज्जइमे सेसे, भिन्नमुहुत्तं अहो मुच्चा ॥१६॥ किंचूणमुहुत्तसमं ठिइबंधद्धाए अंतरं किच्चा । आवलिदुगेक्कसेसे, आगाल उदीरणा समिया ॥१७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002684
Book TitleGyansara Gyanmanjarivrutti
Original Sutra AuthorYashovijay Upadhyay, Devvachak
AuthorRamyarenu
PublisherKailashnagar Jain Sangh Surat
Publication Year2008
Total Pages506
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Spiritual
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy