________________
सिद्धमेव सुखम्, तेन तस्मात् कारणात् पारिशेष्यन्यायात् संसारिणामेव जीवानां देहेन्द्रियेष्वाधारभूतेषु यथोक्तस्वरूपं दुःखम्, सुखं तु देहेन्द्रियाभाव एव सिद्धस्य क्षीणनिःशेषसुखदुःखत्वेन तस्य तत्र युक्तिसिद्धत्वादिति ॥२०११॥ (विशेषा० भा० गा० २०११ ) 2/6... 10/8
[9] लब्भइ सुरसामित्तं, लब्भइ य पहुत्तणं न संदेहो ।
एगं नवरि न लब्भइ, दुल्लहरयणं व सम्मत्तं ॥ १४ ॥
व्याख्या-भ्य प्राप्यते पुण्यानुभावात् सुरा अमरास्तेषां स्वामित्वमीश्वरत्वमिन्द्रत्वमित्यर्थः । यदुक्तम्- मणिरयणकिरीडधरो, चिंचइओ चवलकुंडलाहरणो । सक्को हिओवएसा, एरावणवाहणो जाओ ॥ १ ॥ तथा च शब्दः पुनरर्थः, पुनः प्रभुत्वं-स्वामित्वम् अर्थात् पृथिव्याः नरनाथत्वमित्यर्थः, लभ्यते नात्र सन्देहो द्वापरः । नवरम् इति विशेषः, एगं इति देशसर्वविरतिरहितम् एकं केवलम् सम्यक्त्वं तत्त्वश्रद्धानम्, आस्तां तद्युक्तम्, दुर्लभरत्त्रवत् चिन्तामणिवन्न लभ्यते । यथा लोके भाग्यविहीनानां चिन्तामणिर्दुष्प्रापस्तथा सम्यक्त्वमल्पपुण्यैर्न प्राप्यत इति । ग्रन्थान्तरेऽप्युक्तम् लब्धंति अमरनरसंपयाओ, सोहग्गरूवकलियाओ । न य लब्भइ सम्मत्तं, तरंडयं भवसमुद्दस्स ॥१॥ ( संबोधसप्ततिः गा० १४ ) 2/7 [10] एवं च परित्यक्तसमस्तबाह्याभ्यन्तरोपधिक एकत्वभावनां भावयति
तामाह
-
एगो मे सासओ अप्पा, नाणदंसणसंजुओ ।
सेसा मे बाहिरा भावा, सव्वे संजोगलक्खणा ॥ २६ ॥
एगो मे० एक एवात्मा मे - - मम शश्वद्भवनीय अगमनाच्च शाश्वतः सहचारी ज्ञानदर्शनयुक्तः शेषा ये केचन मे मम बाह्या भावा: पदार्थाः पुत्रकलत्रादिकास्ते सर्वे संयोगलक्षणा एव - कृत्रिममेलापका एव, येषां संयोगस्तेषामवश्यं भावी वियोग इति परमार्थः ॥ २६ ॥
कथं वियोगदुःखानीत्याह
संजोगमूला जीवेण, पत्ता दुक्खपरंपरा ।
तम्हा संजोगसंबंधं, सव्वं तिविहेण वोसिरे ॥२७॥
संजो० संयोग एव मूलं यासां ताः संयोगमूलाः । जीवेन- सांसारिप्राणिना, प्राप्ता - अनुभूता दुःखपरंपरा - अनिष्टकष्टसंतत्यः यस्मादेवं तस्मात् कारणात् संयोगसंबन्धं-समवायाभिलाषं सर्वं भावेन - स्वाभिप्रायेण व्युत्सृजामि ||२७|| [आतुरप्रत्याख्यानपयन्ना गा०२६-२७] 4/1
Jain Education International
2
For Private & Personal Use Only
www.jainelibrary.org