SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ श्रेणिरुच्यते । तथा चोक्तम् छट्ठाणा उ असंखा, संजमसेढी मुणेयव्वा ॥ [पिण्डनि० भा० गा० २९] तदेवं कृता अविभागपरिच्छेद-स्थानान्तर-कण्डक-षट्स्थानकानां प्ररूपणा ४। साम्प्रतमधःस्थानप्ररूपणा क्रियते प्रथमादसङ्ख्येयभागवृद्धात् स्थानादधः कियन्ति संयमस्थानान्यनन्तभागवृद्धानि ? उच्यते-कण्डकमात्राणि । तथा प्रथमात् सङ्ख्येयभागवृद्धात् स्थानादधः कियन्ति असङ्ख्येयभागवृद्धानि स्थानानि ? उच्यते-कण्डकमात्राणि । एवमुत्तरोत्तरस्थानादधोऽध आनन्तर्येण तावद् मार्गणा कर्तव्या यावत् प्रथमादनन्तगुणवृद्धात् स्थानादधः कियन्ति असङ्ख्येयगुणवृद्धानि ? उच्यते-कण्डकमात्राणि । इदानीमेकान्तरिता मार्गणा क्रियते-तत्र प्रथमात् सङ्ख्येयभागवृद्धात् स्थानादधः कियन्त्यनन्तभागवृद्धानि स्थानानि ? उच्यते-कण्डकवर्गः कण्डकं च । तथा प्रथमात् सङ्ख्येयगुणवृद्धात् स्थानादधः कियन्ति असङ्ख्येयभागवृद्धानि स्थानानि? उच्यते-कण्डकवर्गः कण्डकं च । [तथा प्रथमादसङ्ख्येयगुणवृद्धात् स्थानादधः कियन्ति सङ्ख्येयभागवृद्धानि स्थानानि ? उच्यते-कण्डकवर्गः कण्डकं च ।] तथा प्रथमादनन्तगुणवृद्धात् स्थानादधः कियन्ति सङ्ख्येयगुणवृद्धानि स्थानानि ? उच्यते-कण्डकवर्गः कण्डकं च । एवमुक्तप्रकारेण व्यन्तरिता त्र्यन्तरिता चतुरन्तरिता च मार्गणा स्वधिया परिभावनीया ।। अथ पर्यवसानद्वारम्-तत्रानन्तगुणवृद्धकंण्डकादुपरि पञ्चवृद्ध्यात्मकानि सर्वाणि स्थानानि गत्वा पुनरनन्तगुणवृद्धं स्थानं न प्राप्यते, षट्स्थानस्य परिसमाप्तत्वात् । ततस्तदेव सर्वान्तिमं स्थानं षट्स्थानकस्य पर्यवसानम् ॥४५१२।।(बृ०क०सू०गा० ४५१२) 2/5 [5] जे इमे अज्जत्ताए समणा निग्गंथा एते णं कस्स तेउल्लेसं वीतीवयंति ? गोयमा मासपरियाए समणे निग्गंथे वाणमंतराणं देवाणं तेउल्लेसं वीतीवयन्ति एवं दुमासपरियाए समणे णिग्गंथे असुरिंदवज्जियाणं भवणवासीणं देवाणं तेउलेसं वीतीवयन्ति, एएणं अभिलावेणं तिमासपरियाए समणे निग्गंथे असुरकुमारिंदाणं देवाणं तेउलेसं वीतीवयइ, चउमासपरियाए समणे निग्गंथे चंदिमसूरियवज्जियाणं गहगण-नक्खत्ततारारूवाणं जोतिसियाणं तेउलेसं वीईवयइ, पंचमास परियाए समणे निग्गंथे चंदिमसूरियाणं जोइसियाणं तेउलेसं वीतीव्रयइ, छम्मास-परियाए समणे निग्गंथे सोहम्मीसाणाणं तेउलेसं वीतीवयइ, सत्तमासपरियाए समणे निग्गंथे सणंकुमारमाहिंदाण तेउलेसं वीइवयइ, अट्ठमासपरियाए समणे निग्गंथे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002684
Book TitleGyansara Gyanmanjarivrutti
Original Sutra AuthorYashovijay Upadhyay, Devvachak
AuthorRamyarenu
PublisherKailashnagar Jain Sangh Surat
Publication Year2008
Total Pages506
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Spiritual
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy